________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गाराणवचन्द्रिका [ IV. 49 - कादम्बेश्वररायश्चित्तो( ? )रुपद्माकरे
हंसी वीरनृसिंहरायकृतसद्धर्माम्बुधः कौमुदी। राज्ञी पट्टकृताभिषेकमहिता कन्दर्पकान्तोपमा __ कान्ता शीलवती सती'मधुरवाक् श्यामासमा राजते ।।४९।। अनुरागवता केनचित् पुंसा स्वीकृता तु या। स्वयमप्यनुरक्ता च सानूढा नायिका मता ॥५०॥ यथा दुष्यन्तनृपतेर्नायिका तु शकुन्तला। तथा लोकानुसारेण सानूढा परिकीर्तिता ।। ५१ ॥ परकीयाप्यनूढेव ज्ञातव्या विद्यते तयोः । ईषद्भेदः स्वयं रक्तानूढा नायकमिच्छति ।। ५२ ।। परकीया 'सखीवाचा याति नायकसंनिधिम् ।
इति केचिद्वदन्त्येके न हि भेदस्तयोरिति ।। ५३ ।। तद्यथा
परेण परिणीता च परकीया मता पुनः । अनूढा कन्यका चापि परकीया प्रकीर्तिता ॥ ५४ ।। परेण परिणीता तु नास्ति मुख्यरसे क्वचित् ।
अनूढा कन्यका प्रोक्ता गौणमुख्यरसे यथा ॥ ५५ ॥ परपरिणीता नायिका मुख्यरसे उदाहर्तुमयोग्या । अनूढा
कन्यका तु गौणमुख्ये च रसे उदाह योग्येत्यर्थः । मनसिजनृपरूपं रायबङ्गं सुधाब्धि
तदमलगुणराश्याकर्णनाद् राजकन्याः । मदनकदनबाणैः पीडिताः कामयन्ते
नुतरतिसमरूपा दिव्यलावण्यभाजः ॥ ५६ ॥
१. कायसमा राजते । २. संनिवाचा।
For Private and Personal Use Only