________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्वम्।
धर्म विष्णु प्रति नारदवाक्यम्। 'प्रभुना देव कार्याणि कुर्वते येऽविकत्यनाः। सन्तुष्टाश्च क्षमायुक्तास्ताबमस्याम्पह विभो'। अविकस्थना अनात्मश्लाघाकारिणः। स्कन्दपुराण । 'सर्ववाद्यमयी घण्टा केशवस्य सदा प्रिया। वादनालभते पुण्य यज्ञकोटिसमुद्भवम्'। संवत्सरप्रदीपे। 'यस्य घण्टा एहे नास्ति शलो वा पुरतो हरैः। कथं भागवतो नाम गोयते तस्य देहिनः'। तथा। सर्वे दोषाः प्रलीयन्ते घण्टानादे कते हरौ'। तथा 'नदीतड़ागसम्भूतं वापीकूपदो. अवम्। गङ्गोदकं भवेत् सर्वं शङ्खनैव समुदतम्। वराहपुराणे। 'प्रध्य कृत्वा तु शङ्कन यः करोति प्रदक्षिणम् । प्रदक्षिणोक्ता तेन सप्तदीपा वसुन्धरा'। कल्पतरौ तु दक्षिणावर्त विशेषमाह। 'दक्षिणावर्त्तशन पावे पौड़म्बरे स्थितम्। उदकं यः प्रतीच्छत्त शिरसा इष्टमानसः । सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति'। औडुम्बरे ताममये। स्कान्दे 'दक्षिणावर्त्तशस्थ तोयेन योऽर्चयेद्धरिम्। सप्तजना कृतं पापं तत्क्षणादेव नश्यति'। पूजाधारमाह गोतमोयतन्त्रम्। 'शालग्रामे मनो यन्त्र मण्डले प्रतिमासु च । नित्यं पूजा हरेः कार्या न तु केवलभूतले'। हरेरित्युपलक्षणम् । तथाच पद्मपुराणं 'शालग्रामशिलारूपी यत्र तिष्ठति केशवः । तत्र देवासुरा यक्षा भुवनानि चतुर्दश' । तत्र ब्रह्मादयो देवा इति कचित् पाठः प्रतएवास्य दाने भूचक्रदानमण्याह तवैव । 'शालग्रामशिलाचक्र यो दद्याहानमुत्तमम्। भूचक्र तेन दत्त स्यात् सशैलवनकाननम्'। पूजाप्रदौफे। 'अनुक्तकल्प मन्त्र तल्लिखेत् पद्म दलाष्टकम्। षट्कोणकर्णिकं तत्र वेदहारोपशोभितम्'। राघवभकृतम्। 'शालग्राम स्थावरे वा नावाहनविसजने। मालग्रामशिलादी यचित्य सविहितो
For Private and Personal Use Only