________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशौतत्वम्।
पूजायां शतमष्टोत्तरं भवेत् । अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते'। द्रव्यमाह कात्यायनः। 'प्राज्य द्रव्यमनादेश जुहोतिषु विधीयते'। नरसिंहपुराणम्। 'दन्तकाष्ठस्य वक्ष्यामि समासेन प्रशस्तताम् । सर्वे कण्टकिनः पुण्या: क्षौरिणच यशखिनः। अष्टाङ्गलेन मानेन तत्प्रमाणमिहोच्यते'। कालिकापुराणम्। 'यहीयते च देवेभ्यो गन्धपुष्पा. दिकं तथा। अध्यपानस्थितैस्तोयैरभिषिच्य तदुत्सृजेत्' । शारदायाम्। 'तत्र तत्र जलं दद्यात् उपचारान्तरान्तरे'। नरसिंहपुराणम्। 'साने वस्त्रे च नैवेद्य दद्यादाचमनीय. कम्'। भविष्यदेवीपुराणयोः। 'शुचिः सुवस्त्रधक् प्राज्ञोमौनी ध्यानपरायणः । गतकामभय इन्दोरागमात्सर्यवर्जितः ।
आत्मानं पूजयित्वा च सुगन्धसितवाससा। मुमुहर्ते यजे. हेवान् स्वकीयासनसंस्थितान्'। सुमुहः पूर्वाह्वादिकाले। स्मृतिः। 'मृत्कुम्भात्ताम्बकुम्भैप सानं दशगुणं स्मृतम्। रूप्यैः शतगुणं प्रोक्तं हेमैः कोटिगुणं स्मृतम्। एव. मध्येषु नैवेद्य बलिपूजादिषु क्रमात्। पात्रान्तरविशेषेण फलञ्चैवोत्तरोत्तरम्। विभवे सति यो मोहान कुर्यात विधिविस्तरम्। नैतत् फलमवाप्नोति देवद्रोहः स उच्यते। भविष्थे । 'वस्खङ्गलविहीनन्तु न पावं कारयेत् क्वचित्' । स्मृतिः। 'देवानां दर्शनं पुण्यं दर्शनात् स्पर्शनं वरम्। स्पर्शना. दचैनं श्रेष्ठ वृतमानमतःपरम्। अष्टकत्वो मन्त्रजपैः सुप्रसूनैः सुगन्धिभिः। प्राहुर्गङ्गाजलैः स्नानं तमानसमं बुधाः' । हयशौर्षे । 'चित्रस्थ पुण्डरीकाक्षं सविलासं सविभ्रमम् । दृष्ट्वा प्रमुच्यते पापैर्जन्मकोटिसुसञ्चितैः'। तथा। 'अर्चकस्य तपोयोगादचनस्यातिशायनात्। प्राभिरूप्याञ्च विम्बानां देवः साविध्यमच्छति' । खप्प्रेऽपि दर्शनं पुण्यवतामेव । तथाच
For Private and Personal Use Only