SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशौतत्त्वम् । संस्थितः। एतत् सम्भाथ जप्तव्यं पाषण्डादौनुपोषितैः' । उपोषितैर्नियमस्थितैः। एते च मन्त्राः शर्मफलकामना. रहितेनापि मुमुक्षुणी जप्तव्याः। अविशेषणविधानात् यथा योऽस्मान् हेष्टि य वयं द्विप इति मन्त्री द्वेषाभावेऽपि स्यादिति निर्णीतम्। तथाहि मन्त्रस्य शर्मसाधनता प्रकाश सामर्थ्यलक्षगालिङ्गेनैतत्साधनकर्मणस्तत्साधनता सिद्धिर्वतव्या । लिङ्गन्तु न तत्र साक्षात् प्रमाणं किन्वतंत् काम इदं कुयांदिति श्रुत्यनुमापकतयैव तत्र तु इष्टसाधनतापरेण विधिप्रत्ययेनेष्टमेवशर्म एतद्भाव्यमितिपादनात् अंनिष्टस्य कुतो भाव्यता। यथा स्वर्गादिसाधनस्याप्य ग्निहोत्रादेममुक्षु प्रति न तज्जनकबेति । ततश्च प्रातः सङ्कल्पं कुर्यात् । तद्दिधानं वराह. पुराणे। 'एहौत्वौडम्बरं पात्रं वारिपूर्णमदम खः। उपवासन्तु ग्रहीयात् यहा वाद्येव धारयेत्। एकादश्यां निराहारो भूत्वा चैवापरेऽहनि। भोक्ष्येऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत । इत्युच्चार्य ततो विद्वान् पुष्पाञ्जलिमथापयेत्' इत्युत्तराईमधिकं विष्णुनोक्तम् । ततस्तत्पात्रस्थजलं किञ्चित् पिबेदाचमनजलपानवन्नात्र दूषणम्। यथा स्कान्दे । 'रात्रि नयेत्ततः पश्चात् प्रात:नायो समाहितः। उपवासन्तु सङ्कल्पा मन्त्रपूतं जलं पिबेत्' । मन्त्रस्तु कात्याय नेनोक्त: कालमाधवीये। 'अष्टाक्षरेण मन्त्रेण विजपेनाभिमन्वितम्। उपवासफल प्रेमुः पिबेत् पात्रगतं जलम् । अष्टाक्षरेण नारायणमन्त्रेण । ततःप्रार्थयेत्। 'इदं व्रतं मया देव महोतं पुरतस्तव । निर्विघ्नां सिधिमाप्नोतु त्वत्प्रसादाजनार्दन' । ततो विष्णुपूजनम्। तथाच ब्रह्मपुराणम्। 'एकादश्यामुभे पक्षे निराहार: समाहितः । म्राला सम्यग्विधानेन धौतवासा जितेन्द्रियः। संपूज्य विधिवहिष्णु अदया सुसमाहितः। पुष्य गन्धैस्तथाधूपैर्दीपै. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy