________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मठप्रतिष्ठादितत्त्वम्।
६२१
मवेदिभिः प्रायश्चित्तहोमे संकल्पः कार्यः पायामुक अग्ने इहागच्छ इत्युच्चार्य। यवमयं चरुमित्यत्र। यवाभावे बौधादिभिरपि। न च वृषोत्सर्ग सत्सत्य बौहितण्डुला. नित्यनेन यवतण्डुलनिरासवत अत्रापि यवेन बौहिनिरासो. ऽस्विति वाच्यम् अत्र गोभिलपरिभाषितत्वेन ब्रोहियवयोः प्राप्तावपि तत्परिशिष्टे पुनौद्यभिधानात् यवनिरासोऽस्तु सिद्धे सत्यारम्भी नियमाय इति न्यायात्। इह तु पञ्चरात्रे पूर्व प्रात्यभावेन यवविधानं मुख्यार्थमेव। 'हविश्थेषु यवा मुख्यास्तदनु बोहयो मताः। माषकोद्रवगौरादीन् सर्वाभावेऽपि वर्जयेत्। यथोतवस्त्वमम्पत्तौ ग्राह्य तदनुकारि यत् । यवानामिव गोधमात्रौहोणामिव शालयः' । इति छन्दोगपरि. शिष्टात् प्रतएव प्रतिष्ठाकाण्ड कल्पतरावपि तत्तद्रव्यविशेषमुत्वा तत्तदसवे भविष्यपुराणेन काम्येऽपि प्रतिनिधितः । यथा 'काञ्चनं हरितालञ्च सर्वाभावे विनिक्षिपेत् । दद्यादौजी. षधिस्थाने सहदेवां यवानपि'। सहदेवा मेदिन्यता। यथा 'सहदेवा बला टण्डोत्पलयोः साविरोधषो। चरुमित्यभिधा. नात्। हवनौयनिर्वापादिना चकनिष्पत्ति: कर्त्तव्या तत्र गोभिलेन अथ हविनिर्वपति नौहीन यवान् वा चरस्थाल्या वा अमुभ वाजुष्टच निर्वपामि इति देवतानामोद्देशं सक्कद यजुषा हिस्तूष्णौमित्यनेन निर्वापमानाभिधानात् सामगेन तन्मात्रं कर्तव्यम् अत्र च ओं विष्णवे त्वाजुष्य निर्वपामोत्या. दिना यजुषा यजुः परिभाषामाह जैमिनि: 'शेषे यजुः शब्दः' इति ऋक्सामभिन्ने मन्त्रजाते ततश्च यन्मन्त्रजातं प्रश्लिष्य पठित गानपादविच्छेदरहितं तदयजुरिति। यजुर्वेदिना तु ग्रहणनिर्वाषणप्रोक्षणानि कर्त्तव्यानि। तथाह सांख्यायन: 'स्थालीपाकेषु च ग्रहणासादनप्रोचितानि मन्त्रदेवताभ्यः' इति ।
For Private and Personal Use Only