________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुदितत्त्वम्। चारोऽपि तथा। यथा श्राइविवेकऽपि पार्वणश्राकानन्तरं नित्यथाद्धे विकल्प उक्तः । मार्कण्डेयपुराणम्। 'नित्य क्रियां पितृणान्तु केचिदिच्छन्ति सत्तमाः। न पितृणान्तथैवान्ये शेषं पूर्ववदाचरेत्'। अत्र पूर्वार्धात् पितॄणां प्राप्तौ न पितृणामित्यत्र पुनः पितृणां ग्रहणं सनकादीनामनोत्सर्गाभ्यनुज्ञानार्थमिति फलान्तरमुक्त हरिशर्मणापि अन्यार्थं पुनर्वचनमिति लिखितम्। अथ यः खलु पिण्डान् दत्त्वैव मृतः परतश्चाप्राप्तपिटभावः स कथं सपिण्डः । एकपिण्डदाटत्वभोतृत्वलक्षणसम्बन्धाभावादिति चेत् तदयोग्यतयेति ब्रुमः । योग्यताप्रयोजकञ्च सामान्य शास्त्रविषयत्वम्। ततश्चात्यतिवृद्धप्रपितामहावधिकाधस्तनानां षणां पुंसां प्रत्येकापेक्षया सप्तानामेकगोत्राणां स्वावधिपरतनानां सप्तानाञ्च सापिण्डा पिण्ड लेपयोर्दाढत्वभोक्तृत्वसम्बन्धादिति स्त्रीणान्तु भर्तमापिण्डेन सापिण्डाम्। प्रत्तानां भत्तसापिण्डामिति वचनात् ।
नन्वेवं कन्यायाः कथं सपिण्डयतेति चेत् आदिपुराणवच. नात् वैपुरुषं सापिगड्यम् । यथा 'सपिण्डता तु कन्यानां सवर्णानां त्रिपौरुषो'। अत्र कन्यानामनुढ़ानां अप्रत्तानां त्रिपौरुषमिति वशिष्ठवचनात् । तेन आत्मपञ्चमे वृद्धप्रपितामहे सापिण्डा निवर्तते इति प्रतिपादितम्। अतएव कन्याया: प्रपितामहनात्रा तत् सन्ततिभिः सह सापिण्ड्याभावात् कन्यामरणजननयोस्तषां सपिण्डाशौचं नास्ति किन्तु ममानोदकनिमित्तमेवाशौचमिति एवं तेषामपि जननमरणयोः कन्यानामिति शूलपाणिमहामहोपाध्यायाः। यत्तु कूर्मपुराणम्। 'अप्रत्तानां तथा स्त्रीणां सापिण्डंध साप्तपौरुषम् । प्रत्तानां भर्तसापिण्डं प्राह देवः पितामहः'। इति रत्नाकरकृतम्। तहिवाहे पिटपक्षविषयम्। यथा विष्णुपुराणं
३४-क
For Private and Personal Use Only