________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
एकादशौतत्त्वम्।
ऽध्यवसायश्च क्रिया निप्पत्तिरेव च । एतन्मैथुनमष्टाङ्ग प्रव. दन्ति मनीषिणः। अनुरागात् कृतश्चैव ब्रह्मचर्यविरोधकम् । याज्ञवल्काः। 'षोड़श निशास्त्रीणां तासु युग्मासु संविशेत् । ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रश्च वर्जयेत्'। स्त्रीणां गर्भधारणयोग्यावस्थोपलक्षितः कालः ऋतुः। स च रजोदर्शनमारभ्य षोड़शाहोरात्रात्मकः तस्मिन् ऋतौ युग्मासु समासु रात्रिग्रहणादिवसप्रतिषेधः। संविशेत् गच्छेत् पुत्वार्थमेवं गच्छन् ब्रह्मचारी भवति अतो यत् ब्रह्मचर्य श्राद्धादिषु चोदितं तत्र गच्छतोऽपि ब्रह्मचर्य स्खलनदोषो नास्ति। किन्तु पर्वाण्याद्याश्चतस्रश्च वर्जयेदिति मिताक्षरा। अत्र श्राद्धवासरे यदभिगमनमुक्तं तदयुक्तं कल्पतरुतवचनविरोधात्। यथा श्राद्धानन्तरं शङ्खलिखितौ। 'ऋतुस्नातां तदहोरात्रं परिहरेत् । नातवे दिवामैथनं व्रजेत् क्लीवाल्पवीर्याच दिवा प्रसूयन्ते अल्पायुषस्तस्मादेतत् विवर्जयेत् प्रजाकामः । पितृणां नोहवै तन्तु विच्छिन्द्यात् प्रयतेताच्छदाय येनाप्रतिष्ठस्तस्मात् प्रतिष्ठाकाम: प्रजया प्रतिष्ठेतैति'। मो निषेधे। तन्तु सन्तानम अच्छदाय अविच्छेदाय सन्तानस्य। येन यस्मादप्रतिष्ठः प्रजानुत्पत्त्या अप्रतिष्ठः स न पतति तस्मात्य त्यर्थ यतितव्यम्। विष्णु पुराणम्। 'शाहे नियुक्तो भुत्वा वा भोजयित्वा नियोज्य च। व्यवायौ रेतसो गर्त मज्जयत्यात्मनः पितृन्' । शूलपाणिस्तु। ब्रह्मचार्येव भवति ब्रह्मचर्यफलं प्राप्नोति। पर्वणि अमावास्यादौ वर्जयेत्। तेन ऋतौ सकदगमनात् व्रतादिषु न दोषः स्यात् एतच्च पुत्रोत्पत्तिपर्यन्तम्। तथाच आचारमाधवीये कूर्मपुराणम्। 'ऋतुकालाभिगामी स्यादयावत् पुत्त्रोऽभिजायते। ऋणापकरणार्थं हि पुत्वस्योत्पादनश्रुतिः। चतुर्था हर्वजनं प्रशस्त पुत्वार्थ चतुर्थीप्रभृत्युत्तर
For Private and Personal Use Only