SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। यस्तु वासो गुणैः सह। उपवासः स विजेयः सर्वभोगविव. र्जितः। उपात्तस्य निवृत्तस्य पापेभ्यः पापकर्मभ्यः। मैथिलास्तु। दोषेभ्य इति पठित्वा दोषेभ्यो रागद्वेषमात्सर्यादिनिषिदात्मधर्मभ्य इत्यर्थमाहुः । गुणानाह गोतमः। 'दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यमस्पृहा चेति'। दयादिलक्षणान्याह बृहस्पतिः। ‘परे वा बन्धुवर्ग वा मित्रे इष्टरि वा सदा। आत्मवहर्तितव्यं हि दयैवैषा प्रकीर्तिता'। परे उदासोने। आपत्सु रक्षितव्यन्विति कल्पतरौ पाठः आत्मवदिति व्यक्तमाह दक्षः। 'यथैवात्मा परस्तद्रष्टव्यः सुखमिच्छता। सुखदुःखानि तुल्यानि यथामनि तथापरे'। बृहस्पतिः। वाह्ये चाध्यात्मिके चैव दुःखे चोत्यादिते क्वचित् । न कुप्यति न वा हन्ति मा क्षमा परिकीर्त्तिता। न गुणान् गुणिनो हन्ति स्तौति मन्दगुणानपि । नान्चदोषेषु रमते मानसूया प्रकीर्तिता। अभक्ष्य परिहारस्तु संसर्गश्चाप्यनिन्दितैः। स्वधर्म च व्यवस्थानं शौचमेतत् प्रकीर्तितम्। शरीरं पौड्यते येन सुभेनापि कर्मणा। अत्यन्त तन्न कुर्वीत अनायास: स उच्यते। प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम्। एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्वदर्शिभिः । स्तोकादपि च दातव्यमदीनेनैव चात्मना। अहन्यहनि यत् किञ्चिदकार्पण्य हि तत् स्मृतम्। यथोत्पन्नन सन्तोष: कर्तव्योऽप्यल्पवस्तुना। परस्या चिन्तयित्वार्थ सास्युहा परिकीर्तिता'। देवीपुराणम्। 'तयानं तज्जपः नानं तत् कथाश्रवणादिकम्। उपवासकतो ह्येते गुणा प्रोता मनीषिभिः' सर्वभोगविवर्जितः शास्त्राननुमतनृत्यगीतादिसुखरहितः । अत्र मैथिला: वृद्धशातातपो भोगविशेषान प्रतिप्रसूते । 'गन्धा. लकारवस्तूनि पुष्पमाल्यानुलेपनम् । उपवासेन दुष्यंत दन्तः For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy