SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शहितत्त्वम् । २४६८ श्मश्रुर्दान्तः शुक्लाम्बरः शुचिः' इति मनक्तप्राप्त मुण्डनानां समा यस्य यथा एवं तथा वृत्तानामपि सर्वाशौचे मुण्डनम् । यत् पुनरापस्तम्बः । 'न समावृत्तावपेयुरन्यत्र वौद्धारादित्येके । अथापि ब्राह्मणम् एष रिक्तो वाइन पिहितस्तस्यैव तदेव पिधानं यच्छिखेति' । केचि दाचार्या मन्यन्ते वोहारात दर्शपौर्णमासाङ्गयागविशेषादन्यत्र समावृत्ता गृहस्था न वपेयुः । अत्र प्रमाणं तथापौति ब्राह्मणं मन्त्रेतरवेदभाग इति माधवाचार्याः एष गृहस्थः अनपिहित आवरणशून्यः सन् रिक्तस्तुच्छो भवतीत्यर्थः यहिखा तदेव पिधानं तेन वौदारादिकं विना न गृहस्थः शिरो मुण्डयेदित्येकेषां मतमिति तत् काम्य परम् । दानधर्मे 'केश श्मश्रुधारयतामग्रयां भवति सन्ततिः' । केशश्मश्रुधारिणामशीचे पितृमातृमरण एवं मुण्डनम् । विष्णुः । ' प्रयागे तीर्थयात्रायां पितृमातृवियोगतः । कचानां वपनं कार्य्यं वृथा न विकचो भवेत्' इति । अतएव आदिपुराणे यत्त्याज्यमुक्तम् । मङ्गलान्यादर्शष्टतप्रदीपप्रभृतौनि शुभानि दोषरहितानि । पिण्ड दान मन्त्य जेभ्यो वासो दानञ्चाद्यक्रियाधिकारिणः । अन्यत् सर्वमशौचिमात्रस्य परदिनेऽपि स्नानादिगवादिस्पर्शब्राह्मणस्वस्तिवाचनैर्विनाप्यशौच स्थितिः । तथाच देवलः । 'अवाहः सु निवृत्तेषु सुस्नाताः कृतमङ्गलाः । आशुच्यादिप्रमुच्यन्ते ब्राह्मणान् स्वस्ति वाच्य च' । अस्य वक्ष्यमाणव्याख्यानात् सर्वं स्फुटोभविष्यति । देवलः। ‘लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः । हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः । एतानि सततं पश्येन्नमस्येदर्चयेत्तु यः । प्रदक्षिणन्तु कुर्वीत तस्य चायुर्न हौयते' । अभिप्रेतार्थसिद्धिर्मङ्गलं तद्धेतुतया ब्राह्मणाद्यपि । गोप्रणामे ब्रह्मपुराणम् । 'सदा गावः प्रणम्यास्तु मन्त्रेणानेन मङ्गलान्याह For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy