________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्वम् ।
२४७
विध्यनुवादवैषम्य भिया मान्त्यदिनपरिग्रह इति वाच्यं दिन. इयस्य पराशौचमात्र कालत्वेन प्रागप्राप्तत्वेन दशमदिनस्यानुवादानुपपत्तेः। किन्तु पूर्वाशौचस्यान्त्यदिनमादाय दिनहया. शौचाभिधाने अन्त्यदिनस्य पूर्वाशौचकालल्वेन प्राप्तत्वात् तदंशेऽनुवादकत्वम् अपरदिनस्य च अप्राप्तत्वात्तदंशे विधित्वमिति विध्यनुवादवैषम्यादधिकेन व्याख्यानं सङ्गच्छते। न च पूर्वाशौचव्यपगमे दिनहयेनेति व्याख्यानान तथात्वमिति वाच्यं तथा मरणाशौच दशमदिने मृतस्य तहिने पिण्डोदक. दानं न स्यात्तस्य स्वायोचविधानात्। विष्णुः ‘यावदशीचं तावत् प्रेतोदकं पिण्ड मेकञ्च दद्युः' इति पूर्वाशौच व्यपगमे इत्यस्यानुषङ्ग कल्पने प्रमाणाभावाच्च। 'मरणादेव कर्त्तव्यं संयोगो यस्य नाग्निना। दाहादूच मशौचं स्याद् यस्य वैतानिको विधिः'। इति शङ्खोक्तस्य निमित्तीभूतमरण सत्त्वे मरणादिनिश्चयात् नैमित्तिकाशौचस्यावश्य भावस्य बाधापत्तेश्च । वैतानिकः श्रौतोहीम: अग्निपदं तदग्निपरं तेन निरग्नेः स्मार्ताग्नेश्च मरणादेवाशौ चम्। तस्माद्दशमदिनजातं परनिमित्त खावध्येवाशौचजनकं दिनहट नेति पूर्वाशीचं वईयेत् पराशौचस्य ह्रासकं वायं 'अन्तर्दशाहे स्याताञ्चेत् पुनर्मरणजन्मनो। तावत स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम्' इति मनुना पराशोचस्य पूर्वाशौच कालावधिस्थायित्वेन नियमितत्वात्। रात्रि शेषे दिनहयेने त्यनेन पूर्वाशौचस्या. धिकदिनद्दयावस्थानं वाच्यम् अन्यथा यावत्तस्यादनिर्दशमित्य नेन विरोध: स्यात्। अथवा यातत्तत्यादनिर्दशमिति समानं लघु चाशोचं पूर्वेणैव विशुद्यति इति राविशेषे दिनदयेनेति वचनानामेकवाक्यतया पूर्वाशोचस्याधिकदिनहयावस्थानं वाच्यम् अन्यथा कल्पनागौरवं स्यात् प्रथमोत्मन
For Private and Personal Use Only