SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम्। खण्डकाभियोगेऽपि न दोषः यत्तु 'पूर्वमाक्षारयेद यस्तु नियत स्वात् स दोषभाक् । पवाद यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः' इति नारदवचनं तत्पूर्वापेक्षया परस्याधिकवाक्: पारुष्योत्पादकस्यापि स्वल्पदण्डविधायकम् । युगपत्संप्रवर्तने ऽधिकदण्डाभावमाह स एव। 'पारुथ साहसे चैव युगपत्संप्रवृत्तयोः। विशेषश्चेव लभ्येत विनयः स्यात् समस्तयोः' । विनयो दण्डः । एवञ्च दण्डोऽयमनपराधे मयि कृतः 'पौड़ित. त्वादिति भाषायां प्रत्यभियोगः कार्य एव। प्रत्यवस्कन्दनोत्तरत्वेन युगपदनेकव्यवहारापत्तिदोषस्याभावात्। सभापते: कर्त्तव्यमाह कात्यायनः। अथ चेत् प्रतिभूर्नास्ति वादयोग्यस्तु वाटिनोः। स रक्षितो दिनस्यान्ते दद्यानत्याय वेतनम्'। प्रतिभवति तत्कायें तहगवतीति प्रतिभूलग्नकः । वादयोग्यः विवादफलस्य साधितधनाटिदानस्य दण्डदानस्य च क्षमः। वादिनोर्भाषावादिनः उत्तरवादिनश्च। तथाच याज्ञवल्काः। 'उभयो: प्रतिभूह्यिः समर्थः कार्यनिर्णये । प्रतिभुवस्त्वभावे च राज्ञा संजपनं तयोः'। राज्ञा संजपनं दण्ड तुल्याधिकरणं निर्णयस्य कार्ये धनादिदामे राजदन्तादित्वात् कार्यशब्दस्य पूर्वनिपात: भृत्यः तदक्षको राजनियुक्तः । प्रत्यर्थी यदि कश्चित्कालं प्रार्थयते स लभते अर्थी तु कालं प्रार्थयन् अर्थित्वमेव व्याहन्यादिति तेन कालो न प्रार्थनीयः । तढाह 'प्रत्यर्थी लभते कालं नाहं सप्ताहमेव च। अर्थी तु प्रार्थयन् कालं तत्क्षणादेव हीयते'। क्वचित् प्रत्यर्थीकालं न लभते । याज्ञवल्काः। 'साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम्। विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः'। साहसं मनुष्यमारणं गौरत्र दोधा अभिशापो महापातकादिना प्रत्यये व्यनाशे स्त्रियां कुलस्त्रियां चारित For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy