________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१७३
दायतत्त्वम् ।
मनुः । 'कुटुम्बार्थेऽभ्यधौनोऽपि व्यवहारं यमाचरेत् । स्वदेशे 'वा विदेशे वा तं ज्यायान्न विचालयेत्' । तह शस्ये देशान्तरस्थे वा स्वामिनि कुटुम्बव्यवहारनिमित्तकं दासोऽपि यहणादिकं कुर्य्यात् तत्स्वाम्यनुमन्येतेति कुल्लूकभट्टः । व्यक्तमाह वृह स्पतिः । 'पितृव्यभ्भ्रातृपुत्रस्त्रोदासशिष्यानुजीविभिः । यदगृहीतं कुटुम्बार्थे तद्गृही दातुमर्हति' । मनुः । 'ग्रहीता यदि नष्टः स्यात् कुटुम्बार्थे कृतव्ययः । दातव्यं बान्धवैस्तत् स्यात् प्रविभक्तैरपि स्वत:' । स्वतः स्वधनात् । कात्यायनः 'कुटुम्बार्थमशक्ते तु गृहीतं व्याधितेऽथवा । उपप्लवनिमितन्तु विद्यादापत्तन्तु तत् । कन्या वैवाहिकञ्चैव प्रेतकार्य्यं च यत् कृतम् । एतत् सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः । कुटुम्ब मवश्यं भरणौयम् । प्रभोरिति कर्त्तरि षष्ठौ तेन. प्रभुणा दातव्यमिति रत्नाकरः । दायभागे हारीत: 'जीवति पितरि पुत्राणामर्थादानविसर्गाचेपेषु न स्वातन्त्रं कामं दोने प्रोषिते आर्तिं गते वा ज्येष्ठोऽर्थ चिन्तयेत्' । सुव्यक्तमाहतुः शङ्खलिखितौ। 'पितय्यशक्ते कुटुम्बव्यवहारान् ज्येष्ठः प्रतिकुर्य्यादनन्तरो वा कार्य्यज्ञस्तदनुमतो नत्वकामे पितरि ऋक्थ विभागो से विपरीतचेतसि दौर्घरोगिणि वा ज्येष्ठ एव पिटवदर्थान् पालयेत् इतरेषाम्मृक्थमूलं हि कुटुम्बमखतन्त्राः पितृमन्तो मातुरष्येवमवस्थितायाः' । एतद्दचनद्वयं कार्य्याक्षमे दौर्घरोमणि च पितरि विभागं निषिद्वैधव ज्येष्ठो गृहं चिन्तयेत् तदनुजो वा कार्यज्ञ इत्याह अनुमतिस्त्वप्रतिषेधादपि भवति । 'स्वं द्रव्यं दीयमानञ्च यः स्वामौ न निवारयेत् । ऋत्विग्भिर्वापरैर्वापि दत्तं तेनैव तद्भृगुः इति प्रायवित्तविवेकष्टतकात्यायनवचनात् अतएव परमतमप्रतिसिद्धमनुमतं भवतीति न्यायविदः एवं दत्तानिवारणत्वात् सिद्धिरिति ।
For Private and Personal Use Only