________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् । अथ व्रतलक्षणम्। दीर्घकालानुपालनीयः सङ्कल्पोव्रत. मिति नारायणोपाध्यायानां स्वरसः। स्वकर्त्तव्य विषयो. नियतः सङ्कल्पोव्रतमिति श्रीदत्तहरिनाथवईमानप्रभृतयः । सङ्कल्पश्च भावे मयैतत् कर्त्तव्यमेव निषेधे न कर्त्तव्यमिति ज्ञानविशेषः अतएव सङ्कल्पः कर्ममानसमित्याभिधानिकाः । वस्तुतस्तु पूर्वोक्तवराहपुराणवचनेनैकादश्युपवासस्य व्रतत्वाभिधानात्। 'एकभक्तोन नक्तेन तथैवायाचितेन च। उपवासेन चैकेन पादकच्छ उदाहृतः'। इत्यादि याज्ञावल्कवाद्युक्तेषु एकमतनक्तायाचितभोजनोपवासादिषु पादकच्छादित्वाभिधानाच न सङ्कल्पोव्रतं किन्तु सङ्कल्पविषयतत्तत्कर्मैव व्रतमिति। अतएव व्रतानां सङ्कल्पसम्भवत्वमाह मनुः । 'सङ्कल्पमूल: कामो वै यज्ञाः सङ्कल्पसम्भवाः । व्रतानियमधर्माश सर्वे सङ्कल्पजाः स्मृताः'। अनेन कर्मणा इदमिष्टं फलं साध्यते इत्येवं विषया बुद्धिः सङ्कल्पस्तदनन्तरमिष्टसाधनतया अवगते तस्मिन् इच्छा जायते ततस्तदर्थ प्रयत्न कुर्वीत इत्येवं यज्ञाः सङ्कल्पसम्भवाः । व्रता नियमरूपा धर्माश्चतुर्थाध्याये वक्ष्यमाणाः । सर्वे इत्यनेन अन्येऽपि शास्त्रार्थाः सङ्कल्पादेव जायन्त इति कुल्लू कभट्टः । सङ्कल्पमाह वराहपुराणम् । 'प्रात:सङ्कल्पयेदिहानुपवासव्रतादिकम् । नापराहे न मध्याले पित्रा. कालौ हि तौ स्मृती' सङ्कल्यो व्रतस्यारम्भ इत्युक्तं राघवभट्ट
तोविष्णुः। 'व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे। आरब्ध सूतकं न स्यादनारब्ध तु सूतकम्। आरम्भोवरणं यज्ञे सङ्कल्पोव्रतजापयोः। नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिष्क्रिया। निमन्त्रणन्तु वा श्राद्धे प्रारम्भः स्यादिति श्रुतिः'। पाकपरिष्क्रियेति साग्नेदर्शश्राद्धविषयं तत्रैव तस्याग्न्य वरणविधानेन तदग्निपाकस्यासाधारणत्वात्। सङ्कल्प
For Private and Personal Use Only