________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८००
संस्कारतत्त्वम् ।
पादेन गत्वा तद्देशे वामपादेन न गच्छेत् । एवं षट्सु स्थानेषु नयेजामाता । एतदनन्तरं सखा सप्तपदौत्यनेन प्रार्थनं भवदेवभट्टोक्त गुणविष्णुनापि लिखितो मन्त्रो व्याख्यातथ ईक्षकान् प्रति मन्त्रयते सुमङ्गलौरियं वधूरिति विवाहं द्रष्टुमागतान् सुमङ्गलौरिति मन्त्रेण जामाता प्रार्थयेत् । अपरे - णाग्निमौदकोऽनुव्रज्य पाणिग्राहं मूई देशेऽवसिञ्चति तथेतरां समज्जन्तु इत्येतयर्था । चौदको गृहीतोदककुम्भः पूर्वस्थापितः सोऽग्नेः प्रादक्षिण्य ेन पश्चादागत्य समज्जयन्त्व तथा ऋचा मन्त्रलिङ्गाद्दरेण जप्यमानया मन्त्रान्ते कर्मादिसनिपात इति न्यायात् मन्त्रान्तरमभिषिञ्चेत् तथा तेनैव प्रकारेण भेदोपादानेन इतरां वरेतरां वधूं पृथगभिषिञ्चेत् इतरयासमस्याभिधानं स्यात्। तथाच गृह्यसूत्रम् । भेदे मन्त्रावृत्तिरसत्रिपातत्वात् एवमेव भट्टभाष्यम् । एतेन करणमन्वत्वात् कुम्भधारिणोऽयं पाठ्यः न सिच्यमानस्य नाविति तु युवयोरित्यर्थे छान्दसो व्यतयः इति सरलोक्तं मन्त्रलिङ्गाहर एवाभिषिञ्चतीति वौरेश्वरोक्तञ्च नोपादेयं व्यवहारविरोधात् । अवसिक्तायाः सव्येन पाणिनाज्ञ्जलिमुपोदग्टह्य दक्षिणेन पाणिना दक्षिणं पाणिं साङ्गुष्ठमुत्तानं गृहीत्वा एताः षट्पाणिग्रहणीया जपति गृम्भ्रामित इति । कन्यावसेचनस्य प्राक् प्राप्तत्वेनावसिक्ताया इति पुनरुपादानम् अवमेचनस्थानस्थाया एव हस्तग्रहणार्थम् । उपउद्गृा उपसा - मौप्य तेन मणिबन्धसमौपे ग्रहणमर्थाद्दामेन उत्तरतः साङ्गुष्ठदक्षिणस्य दचिणेन ग्रहणाभिधानात् । उद्ग्टह्याञ्जलिसका शाहचिणपाणिं विच्छिद्य वध्वा उत्तानं साङ्गुष्ठं दक्षिणं पाणिं दक्षिणेन पाणिना ग्टहीत्वा गृम्नामि ते इत्यादि षडृचः पतिः र्जपति । साङ्गष्ठमित्यनेन तर्जन्यादीनां ग्रहणम् उत्तानमित्यनेन करस्य पृष्ठग्रहणं प्रतीयते । समाप्तासुद्दहन्ति प्रागुदौच्चां
For Private And Personal Use Only