SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् | सप्तम्यामस्तगायां यदि विशति गृहं पत्रिका श्रीफलाढ्या राज्ञः सप्ताङ्गराज्यं जनसुखमखिलं हन्ति मूलानुरोधात् ॥ तस्मात् सूर्य्योदयस्थां नरपतिशुभदां सप्तमीं प्राप्य देवीम् । भूपालो वेशयेत्तां सकलजनहितां राचसीं विहाय " ॥ राक्षसर्चं मूला "पत्रोप्रवेशनं रात्रो विसर्ग वा करोति यः । तस्य राज्यविनाशः स्याद्राजा च विकलो भवेत् " ॥ देव्या ग्टहं दक्षिणायनेऽपि कर्त्तव्यं कल्पतरुष्टतदेवीपुराणे प्रतिष्ठाविधानेन तद्विधानात् । तथाच “महिषासुरहन्नाथ प्रतिष्ठादक्षिणायने” । तत्रैव " यस्य देवस्य यः कालः प्रतिष्ठाध्वजरोपणे । गर्त्तापूर शिलान्यासे शुभदस्तस्य पूजितः " ॥ यस्य देवस्य प्रतिष्ठाध्वजरोपणे यः कालः शुभदस्तस्य गर्त्तापूरशिलान्यासे गृहारम्भ' सकाल: पूजित इत्यर्थः । तस्य प्रवेशेऽपि सकालः । “ज्येष्ठादितिथ्यां संयुक्तं गृहारम्भोदितञ्च यत् । तत्सर्व योजयेद्देश्मप्रवेशे देवचिन्तक "ः ॥ इति ज्योतिर्वचनात् अदिति: पुनर्वसुः । Q. पत्रिका तु " कदली दाड़िमी धान्यं हरिद्रा मानकं कचुः । विल्वोऽशोको जयन्तौ च विज्ञेया नवपत्रिका " ॥ विल्वयुग्ममुपक्रम्य गवाततन्त्रे । " वायव्यस्थं राचसस्थं न गृह्णीयात् कदाचन" । व्याहृतिभिरावाहनमाह मत्यपुराणं "विनायकं तथा दुगां वायुमाकाशमेव च । श्रावाहयेद्याहृतिभि स्तथैवाश्वि कुमारकौ ॥ तस्मिन्नावाहयेद्देवान् पूर्ववत् पुष्पतण्डलैः” ॥ तस्मिन् मण्डलादों । प्राणप्रतिष्ठा विधिमाह कालिकापुराणे “प्रतिमायाः कपोली at स्पृष्ट्वा दचिणपाणिना । प्राणप्रतिष्ठां कुर्वीत तस्यां देवस्य वा हरेः ॥ श्रक्वतायां प्रतिष्ठायां प्राणानां प्रतिमासु च । यथा पूर्व तथा भावः खर्णादोनां न विष्णुता ॥ अन्येषामपि देवानां प्रतिमाखपि पार्थिव । प्राणप्रतिष्टा कर्त्तव्या तस्यां देवत्वसिद्धये ॥ वासुदेवस्य वोजेन तद्विष्णोरित्यनेन च । तथैवाङ्गाङ्गिमन्त्राभ्यां प्रतिष्ठामाच रेडरेः ॥ तथैव हृदयेऽङ्गुष्ठ दत्त्वा शश्वच्च मन्त्रवित् । एभिर्मन्त्रैः प्रतिष्ठान्तु हृदयेऽपि समाचरेत् ॥ अस्मै प्राणाः प्रतिष्ठन्तु अस्मै प्राणाः चरन्तु च । For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy