________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८८०
संस्कारतत्त्वम् । स चाग्रेण स वेण वा। वन्दनं कारयेत्तेन शिरः कण्ठांशवेषु च॥ कस्यपश्येति मन्वेष यथानुक्रमयोगतः। ततः शान्ति प्रकुर्वीत अवधारणवाचनम् ॥ दक्षिणा च प्रदातव्या ग्रहाणाम विसर्जनम्" ॥ शान्तिः सामगानां वामदेव्यगानम्। तथा च गोभिलः । “अपवृत्ते कम्मणि वामदेव्यगानं शान्त्यर्थमिति"। अपहत्ते समाप्ते। गानाशक्ती विधा पाठमाह छन्दोगपरिशिष्टम्। “पर्युक्षणच सर्वत्र कर्तव्यमदितेऽन्विति। पत्ते च वामदेव्यस्य गानमित्यथवा विधा । मानं कुर्यादृचस्तिधेति वा पाठः। पवधारणमच्छिद्रावधारणम् । “च्छिद्रामिति यहाक्यं वदन्ति क्षितिदेवताः। प्रणम्य शिरसा ग्राह्यग्निष्टोमफलैः समम् ॥ इति शातातपपराशरवचनात्। अवधारणं तच दक्षिणादानानन्तरं कर्त्तव्यं न तु पाठक्रमादरः । "वृथा विप्रवचो यस्तु राति मनुजः शुभे। पदत्त्वा दक्षिणां वापि स याति नरकं ध्रुवम् ॥ इति नारदौयात् । अतएव भवदेवमहेनापि वामदेव्यमानानन्तरं दक्षिणाभिहिता न त्व. च्छिद्रावधारणात् परम्। होमदक्षिणा च स्वयं होटपले ब्रह्मणे देया। ब्राह्मणे दक्षिणा देया यत्र या परिकीर्तिता। कन्तिानुच्यमानायां पूर्णपानादिका भवेत् ॥ इति छन्दोगपरिशिष्टात्। गोभिलेनापि दर्शादियागमभिधाय पूर्णपात्र दक्षिणा तं ब्रह्मणे दद्यादित्युताम्। वान्तत्वेऽपि पुंस्त्वं छान्दसम् एतदनुसारात् कर्मान्त इति ब्रह्मसाध्य होमान्सपर न तु परिशिष्ट प्रकाशोजनामकरणादिप्रधानकर्मान्तपरम् चतः प्रधानकम्मंदक्षिणां कर्मोपदेष्ट्रे प्राचार्याय दद्यात्। यजमाने. तरहोवपक्षे तु ब्रह्महोटभेदेन दक्षिणा विशेषानुपादाने होमदक्षिणैव ब्रह्महोटभ्यां ग्रहौतव्या। स्वयमेव होटब्रह्मकरणे भन्यस्मै दद्यात् “विदध्याहोत्रमन्यहक्षिणाईहरो भवेत् ।
For Private And Personal Use Only