________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८७२
संस्कारतत्त्वम् ।
मार्जनं कुशैः काव्यम् । घृतादिलेपवताम्तूष्णेन वारिया प्रचालन पूर्वकमग्नौ प्रतापनं काय्र्यम् । लेपरहितानान्तु प्रतापनं दर्भे सम्मार्जनमभ्युचयम् । पुनः प्रतापनमुत्तरतो निधानञ्च कुर्य्यात् तथा च कात्यायनः । " स्रुवं प्रतथ्य दर्भेः संमृज्याभ्युच्य पुनः प्रतप्य निदध्यात्” इति भाव्यादिसंस्कारं वारत्रयं कुय्यादिति भवदेवभट्टः । हरिणाप्येतत् प्रकरणे सक्कचिर्वेति वचनादित्युक्तम् । होमकाले पञ्चाङ्गुलांख्यका शङ्खमुद्रया धाय्य: स्रव: “पञ्चाङ्गलान् वहिस्थका धारयेच्छ मुद्रया” इति वचनात् । पाण्याहुतौ तु गोभिलः । “उत्तानेनैव हस्तेन चङ्गष्ठाग्रेण पीड़ितम्। संहताङ्गुलिपाणिस्तु वाग्यतो जुहुयाद्दविः” ॥ तत्र परिमाणे कात्यायनः । " पाण्याहुतिर्द्वादश पर्व पूरिका कंशादिना चेत् स्रुवमात्रपूरिका । देवेन तीर्थेन च हयते हविः स्संगारिणि स्वर्श्विषि तथ पावके ॥ अशक्तौ तु स्मृतिः । " श्रार्द्रामलकमानेन कुय्या होमहव लोन् । प्राणाइतिवलिश्चैव मृदं गात्रविशोधिनौम्” ॥ का त्यायनः । “यो नर्चिषि जुहोत्यग्नौ व्यङ्गारिणि च मानवः । मन्दाग्निरामयावौ च दरिद्रश्च स जायते ॥ तस्मात् समि होतव्यं नासमि कदाचन | आरोग्यमिच्छतामायुः श्रियमात्यन्तिकीं तथा ॥ जुहूषंश्च हृतौ चैव पाणिसूर्पस्फादारुभिः । न कुय्यादग्निधमनं न कुय्याहाजनादिना ॥ मुखेनैव धमेदग्निं मुखादेषोऽध्यजायते” ॥ नाग्निं मुखेनेति च यत् लौकिके योजयन्ति तत् । हि यस्मात् मुखात् मुखपठितमन्त्रात् एष संस्कृतोऽग्निः । ततच लौकिक इति तदितराग्निपरम् एतेन लौकिक इति श्रौताग्निभिन्नपरमिति मैथिलोक्तं हेयम् । जुहषंश्च हते चैवेत्यनेनोपक्रमवचनेन संस्क्रियमाण संस्कृताग्न्योरेव पाणिसूर्पादिनिषेधसुखेन मुखधमनस्य विहितत्वात् तदु
For Private And Personal Use Only