________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८६०
संस्कारतत्त्वम् ।
हरिशधृतवचनात् । तत्प्रकारमा गृह्यासंग्रहे । "शुभं पावन्तु कांस्यं स्यात् तेनाग्नि' प्रणयेदुधः । तस्याभावे शरावेण नवेनाभिमुखच्च तम् । सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरो मुखः । विश्वरूपो महानग्निः प्रणीतः सर्वकर्मसु ” । एवच्चाग्नि प्रणयनानन्तर सर्वत इत्यस्य पाठो युज्यते प्रपौत इति मन्त्रलिङ्गात् अन्यथा स्थापनानन्तरमेतदभिधान व्ययं स्वात् । ताम्रपात्रमप्याह देवीपुराणम् । "ताम्म्रपाचे शरावे वा श्रानयित्वा हुताशनम् । अग्निप्रणयनं कुय्यात् यजमानसुखावहम्” इति । अविरपि । “ पात्रान्तरेण पिहिते ताम्रपात्रादिके शुभे । श्रग्निप्रणयन कुय्यात् शरावे ताहशेऽपि वा ॥ यत्तु “ शरावे भिन्नपात्रे वा कपाले वोल्मुके - ऽपि वा । नाग्निप्रणयनं कुय्यात् व्याधिहानिभयावहम् ॥ इति स्मृतिसागरष्टृतवचनं तत् मुख्यकांस्यादिमये समावे निषेधकमिति राघवभट्टः । छन्दोगपरिशिष्टम् । “जातस्य लक्षणं कृत्वा तं प्रणौय समिध्य च । श्रधाय समिधचैव ब्राह्मणमुपवेशयेत्” ॥ जातस्यारण्याद्युत्पत्राग्नेः इति साग्निकपरं प्रागुक्तरेखादि । तमग्नि क्रव्यादमग्नि प्रहि णोमि दूरं यमराज्य गच्छतुरिप्रवाह इति मन्त्रेण तस्याग्न े : क्रव्यादांश मन्त्रलिङ्गात् दक्षिणस्यां दिशि चिम्रा प्रपौय उक्तप्रकारेण स्थापयित्वा यद्यग्निस्थापनानन्तरं कर्मकाले वृथ्यादि शङ्कया संस्कृताग्निरन्यवानौयते तदा पुनर्भूसंस्कारः कर्त्तव्यः 1 समूह उपलिप्य उल्लिख्य उद्धृत्याभ्यु क्षयेत् एष संस्कारोऽनुगतोऽग्नौ भूय इति गृह्यान्तरात् । समिध्य ज्वालयित्वा समिधं तत्र तूष्णीं दत्त्वा वच्यमाणक्रमेण ब्राह्मणमुपवेशयेत् । समिलक्षणं तत्रैव । " नाङ्गुष्ठादधिका न्यूना समित्स्थूलतया कचित्। न निर्मुक्तत्वचा चैव नः स
।
For Private And Personal Use Only