________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमापतत्त्वम् ।
८२६
विवाह उक्तः । अतएव तत्सारभूतं व्यवहारमात्र विवक्षितं श्रीपतिनामबुप्रति प्रतिज्ञाय समयाशुद्धौ मकरस्यहस्पतिदोषमनभिधाय केवलमुपनयने नौचस्थवृहस्पर्निषिद्धः । एतेन तनिर्णये श्रीपतिसंहितायां व्यवहारोपहितमेव वचनं न च व्यवहारविरुद्धमिति । एतेन मकरस्थ गुर्वादौ विवाहादिविधायकं वचनं तदाचारविरहादनादरणीयम् । इति वाच - स्पतिमिश्रोक्त हेयम् । प्रतिष्ठाव्यतिरिक्तम करस्थ गुरु कर्मनिषेधक श्रीपतिग्रन्थविरहात् । अथ तनिषेधकमुनिवचनानि प्रामाणिकान्तरष्टतत्वादुपादेयानीति चेत् तर्हि प्रतिप्रसववचनान्यपि तथा । एवञ्चातिचार विवाहादिनिषेधकवचनानि श्रीपतिना लिखितानि न तु तदपवादकानौति । तेन तान्यप्रामाणिकानौति यदुक्त तदपि हेयम् । प्रकृते पूर्वोक्तयुक्ते - स्तौल्यात् । भुजवलभौमे । “जोबोऽर्केण युतः करोति मरणं वालांशको भागुरिः । नचचैकगतो वदन्ति यवनाः पाद स्थितो देवलः । प्रायो गर्गपराशरादिमुनयो नेच्छन्ति चास्तं गते तस्मादस्तमिते सुरेन्द्रसचिवे नेष्टं विवाहादिकम् ॥ श्रीपतिरत्नमालायाम् । " प्रागुहतः शिशुर हस्त्रितयं सित: स्यात् पश्चाद्दशाहमितपञ्चदिनानि वृद्धः । प्राकपक्षमेव कथितोविशिष्ठ वस्तु पचमपि वृद्ध शिशुर्विवर्ज्यः” । वृद्धशिशुत्वगन्तेति कचित् पाठः । सितः शुक्रः इह पश्चाद्दिशि । राजमार्त्तण्डे । “भवेत् सन्ध्यागतः पश्चात् अस्तमैष्यन् दिनत्रयम् । दिनानि पञ्च पूर्वेण तत्कृते की वर्जयेत् । बाले वृद्ध े च सन्ध्यांशे चतुःपञ्चत्रिवासरान् । जीवे च भार्गवे चैव विवाहादिषु वर्जयेत् । बाले वृद्ध े च सन्ध्यायां नष्ट च भृगुनन्दने । दुर्भगा चासतो बन्ध्या मृत्युयुक्ता फलं क्रमात् । बाले च दुर्भगा नारौ हड नष्टमजा भवेत् । नष्टे च मृत्यु
の
For Private And Personal Use Only