________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमास तत्त्वम् ।
८२७
लुप्तत्वात् वसने लुप्त इति तदाह योऽमई इति । भुजवलभौमादिनिबन्धेषु । “शुभं भवनमासाद्य यदातिक्रमते गुरुः । अत्र संबद्धिता कन्या सुखं भर्त्तुः प्रमोदते । दीपिकायाम् । "त्रिकोणजाया धनलाभराशौ वक्रातिचारेण गुरुः प्रयाति । यदा तदा प्राह शुभे विलग्ने हिताय पाणिग्रहणं वशिष्ठः ॥
"
त्रिकोणं नवपञ्चकम् । जायासप्तमं धनं द्वितीयं लाभ एकादशग्टहम् । रत्नकोषे । "पक्षो दशाहानि तथा त्रिपक्षी मासविभागः खलु षट्च मासाः । एषोऽतिचारः कथितो ब्रहाणां भौमादिकानां परतस्तु चारः " ॥ प्रतिष्ठाकाण्ड कल्पतरौ देवीपुराणम् । “यदा जौवे स्थिते सिंहे तथैव मकरस्थिते । देवारामतड़ागादिपुरोद्यानग्टहाणि च॥ विवाहादिमहाभाग भयदानि विनिर्दिशेत् ॥ यदा द्वादशगे जौवे श्रष्टमेवाथ भास्करे । प्रतिष्ठा कारिता विष्णोमहाभयकरौ मता" । कृत्यचिन्तामणौ देवौपुराणम् । “सिंहसंस्थं गुरु शुक्रं सर्वारम्भेषु वर्जयेत् । श्रारम्यच्च न सित महाभयकरं भवेत् ॥ कूपारामतड़ागेषु पुरोद्यानगृहेषु च । सिंहस्थं मकरस्थञ्च गुरुं यत्नेन वर्जयेत् ॥ कारको व्रजते नाशं सन्तानः क्षीयतेऽचिरात्” । गुणिसर्वस्खे | मकरगुरौ प्रवर्त्तकं नरसिंहपुराणम् । “विवाहो नैव कर्त्तव्यः सिंहसंस्थे गुरौ यदा । मकरस्थे च तत्कार्य्यं कल्याणं सर्वतो बुधैः” । तथा देवीपुराणम् । " मकरस्थो यदा जौवो वर्जयेत् पञ्चमांशकम् । शेषेष्वपि च भागेषु विवाहः शोभनो मतः” । एतutti व्यवहारपरिग्टहोतमिति कत्यचिन्तामणिः । एतेनैतदनाकर' भवति किन्तु मैथिलानामनाचा : इति स्वरसोऽवगम्यते । अतएव रत्नावल्यादिषु नौचस्य पुरावेत दोष उक्तः । गुरोनचस्थत्वमपि विमांशमकरराशेः पञ्चांगं यावदिति
For Private And Personal Use Only