________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
૪
तिथितत्त्वम् ।
“ मन्त्रान्ते कर्मसत्रिपातः” इति न्यायात् " मन्त्रान्त े कर्मादौनि सन्निपातयेत्" इत्यापस्तम्बौयाच्च । हिंसापैशुन्यादिभेदमाह कामधेनो देवलः । " कायक्लेशं मनोदुःखं बधं वा प्राणिनां पुनः । यः प्रवर्त्तयति द्वेषात् सा हिंसेति समासतः । यज्ञार्थं ब्रह्मबध्याः प्रशस्ता मृगपक्षिणः । भृत्यानाञ्चैव वृत्त्यर्थमगस्त्यो ह्याचरत् पुरा" ॥ तथा " परुषवचनमपवादः पैशुन्यमनृतं हयालापो निष्ठरवचनमिति वाङ्मयानि षट् । परेषां देश जाति कुल विद्याशिल्परूप वृत्ताचार परिच्छद शरोर कर्मजौविनां प्रत्यक्षदोषवचनं परुषम् ॥ यच्चान्यत् क्रोधसन्तापत्राससंजननं वचः । परुषं तच्च विज्ञ ेयं यच्चान्यच्च तथाविधम् ॥ चचम त्रिति लुप्ताचं चण्डालं ब्राह्मणेति च । प्रशंसानिन्दनं द्वेषात् परुषान्न विशिष्यते” ॥ तेषामेव परुषवचनानां परोक्ष मुद्राहरणमपवादः । गुरुनृपतिबन्धुभ्राटमित्रमकाशे अर्थोपघातार्थं दोषोपाख्यान पैशुन्यम् । अनृतं द्विविधम सत्यमसंवादश्चेति । “देश राष्ट्रप्रसङ्गाच्च परार्थे परिकल्पनात् । नर्महासप्रसङ्गाच्च भाषणं व्यर्थभाषणम् ॥ गुह्याड्रामेध्यमज्ञानां वचनं निष्ठुरं विदुः । यदन्यदा' वचो नौचं खोपुंसो मिथुनाश्रयम् ॥ इत्येवं षट्विकल्पस्य दुष्टवाक्यस्य भाषणात् । इह वा मुत्र वा क्रूरमनर्थं प्रतिपद्यते ॥ प्रशंसाभिन्दन प्रशंसया निन्दनम् अत्र चतुर्विध षड़विधयारविरोधः । समचत्वा समचत्वभेदानादरणेन पारुष्यापवादयोरेक्यात् निष्ठरस्य परुषान्तर्भावाच्च । श्रसम्बन्धप्रलापव्यर्थ भाषणयोः पर्यायत्वात् नार्थान्तरत्वम् । अभिध्यानमपहरणार्थमिति शेषः । वितथे असत्यभूते वस्तुनि अभिनिवेशः पुनः सङ्कल्पः । स्मृतितवे महादेवीं सृष्टिस्थित्यन्तकारिणौम् । नत्वा वदति तत्पूजाकालं श्रोग्घुनन्दनः ।
a
श्रथ दुर्गोत्सवः । मार्कण्डेय पुराणे “ शरत्काले महापूजा क्रियते या च वार्षिकौ " इति यथा “मृतानि तु कर्त्तव्यं प्रतिमासन्तु वत्सरम् । प्रतिसंवत्सरञ्चैव श्राद्यमेकादशेऽहनि ” इति याज्ञवल्कावचने श्राद्धस्य प्रति संवत्सर कर्त्तव्यत्व श्रुत: यथा वा "प्रति संवत्सरमा ग्रहायणेष्टिं कुर्य्यात्" इति प्रति
·
For Private And Personal Use Only