________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् ।
५७१ एवोताम्। भानां यथा सम्भवमुत्तरेण पञ्चाङ्गहाणां यदि वा शशाङ्गः । शुभप्रदानां शमदः प्रयाये याम्येन यातो न शुभः शशाखः। यो यस्य दशमहगः स तस्य कश्यो भवति नियमेन । वर्ततुङ्गमूलत्रिकोणगा: कण्टकेषु यावन्त आस्थिताः। जन्मकालवशगास्ते तु कारकाः कर्मगास्तु तेषां विशेषतः । मितपक्षादौ चन्द्रे शुभे शुभं पक्षमशुभमशुभे च । कृष्णे गोचरशुभदो न शुभः पक्षः शुभोऽतोऽन्यः । भीमपराक्रमे । “शुक्ल पक्षे प्रतिपदि चन्द्रे शिवे शिवं पक्षम्। कृष्णे प्रतिपदि ताराशुद्धौ शुभं विदुः पक्षम्"। वादरावणः। “शौतांशर्मिष्टमन्नं जनयति सततं जमराशी नराणां हर्षे दैत्येन्द्रमन्त्री दिवसकरकुजौ शत्रुपक्षस्य वृद्धिम् । हानि कुर्यादसूनां किरणपतिसुतो बन्धनं सोमपुत्रो नित्य निईतबुद्धि प्रवलरिघुबलं वित्तनाशच जौवः। भेद मित्रजने करोति दिनकृत क्ल शाश्रय चन्द्रमाः । सौरिवित्तविनाशमृच्छति सदा लाभं ददातौन्दुजः । हानि भूमिसुतः करोति महती भोगान् भृगोरात्मजा ज्ञानं दीपयति हतीयभवने जीवो नृणां नितिम् । हतौये तिष्ठन्तः खरकिरणभौमार्कतनया: स्थिरस्थानप्राप्तिं ददति भृगुसूनुश्च परमाम्। विनाशं शत्रणां जनयति शशी चन्द्रतनयः पर हृत्सन्ताप विदशपतिमन्त्री च कुरुते। ३ । मूह्मां शास्त्रविरो. धिकामपि धियं मूढां करोत्यङ्गिराः घोरा दुःखपरम्परां दिनकरः कुक्ष्यामयं चन्द्रमाः। सौम्यो रोगविनाशमिच्छति नृणां रोगक्षयं भार्गवो भौमः शनुभयं चतुर्थभवने सौरिश्च वित्तक्षयम्। ४ । दौर्भाग्यं शशलाञ्छनः क्षितिसुतचोहिग्नतां चेतसो दोषोत्पत्तिमनुत्तमां रविसुतः स्निग्धैवियोग रविः। दौर्भाग्य विदधाति चन्द्रतनयः प्राप्तिं परां भार्गवः कुर्य्यात् पञ्चमराशिगोचरगतो जोवो नृणां निहतिम् । ५। स्थिताः षष्ठे राशी,
For Private And Personal Use Only