________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
शतसूर्यग्रहाणां प्रत्येकाधिकरणतासंसर्गेणान्वयात् कालानां स्नानानां तत्फलानामपि बहुशतत्वं लभ्यते अतो नाप्रसिद्धिः पूर्णसप्तम्यां पूर्वापरतोयंत्रारुणोदयकाले सप्तमौ तत्र पूर्वदिने तत्काले स्नानम्। “चतस्रो घटिका प्रातररुणोदय उच्यते। यतीनां स्नानकालोऽयं गङ्गाम्भः सदृशः स्मृतः ॥ त्रियामां रजनों प्राहुस्त्यत्वाद्यन्तचतुष्टयम्। नाडौनां तदुभे सध्ये दिवसाद्यन्तसं जित” ॥ इति कालमाधवीयकृत ब्रह्मवैवती येन पूर्वस्य तत्कालस्य पूर्णतिथिसम्बन्धि दिनकर्त्तव्य कर्माङ्गत्वेन इतरस्य चेतराङ्गत्वे नाभिधानात् अतएव दक्षेण तत्कालमारभ्याङ्गिक कृत्यमभिहितम् अवारुणोदयकाले मुहान्य नतिथिलाभ एव स्नानं “व्रतोपवासस्नानादौ घटिकैका यदा भवेत् । उदये सा तिथिह्या थाहादावस्तगामिनी” इति विष्णुधर्मोत्तरात् अत्न धटिका मुहूर्त श्राद्धयोग्य कालानुगेधादिति वक्ष्यते ब्रह्मवैववर्तवचने घटिका दण्ड रूपा परवचने नाडौनामाद्यन्त चतुष्टयमित्ये कवाक्यत्वात् ये तु सूर्योदयात् प्रागपि प्रातःस्नानविधानात् तत्रैव माघसप्तम्याख्यगुगाफलविधि - वादित्याहुः तच्चिन्त्य “प्रकरणान्यत्वे प्रयोजनान्यत्वम्” इति जैमिनिसूत्रेण प्रकरणभेदे गुणविष्यसिद्धः अतएव कल्पतरू. रत्नाकरयोः । “य इच्छेदिपुलान् भोगान् चन्द्रसूर्य ग्रहोपमान्। प्रातःस्नायौ भवेन्नित्यं दो मासौ माघफाल्गुनो” इति विष्णुस्मृती नित्यस्नानप्रकरणात् प्रकरणान्तरान्मानात् प्रकरणान्त. राधिकरण न्यायेन काम्यस्नानान्तरमिदमप्युक्तं न तु गुणफल. विधि: किन्तु कास्य करणे प्रसङ्गानित्यसिद्धिरिति अत्र माघभासनिमित्तकमाघसप्तमीनिमित्तककाम्यस्नानयोः प्रातर्विधानात् नैमित्तकत्वेन प्रायश्चित्तवत् सक्दनुष्ठानम् । “प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः । तदङ्गस्याक्रियायान्तु नावृत्तिन च तत्क्रिया" ॥ इति कात्यायनवचनात् “न स्नानमाचरेद् भुत्वा नातुरो न महानिधि । न वासोभिः सहाजन नाविज्ञाते जलाशये" ॥ इति मनुवचनेकदाजनमाननिषेधाच्च “धर्म विन्नाचरेत् स्नानमाहिकञ्च पुनः पुनः" । इति मनुवच नाच अतएव नान्दो मुख प्रकरणशेषे प्रधानानामपि काग्यानां
For Private And Personal Use Only