________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् ।
वित्तं नरे बुधः । तस्मिन् संक्रमते पापं कर्त्ता तु तद्दिमुचते ॥ इति गङ्गावाक्यावलोष्टतस्कन्दपुराणवचनात् । " यस्मिन् कर्मण्यस्य कंते मनसः स्यादलाघवम् । तस्मिंस्तावत्तपः कुर्य्यात् यावत्तुष्टिकरं भवेत्” ॥ इति मनुवचनाञ्च । अभ्यस्तानम्यस्वाभ्यां क्वच्छ्रचान्द्रायणादीनि इत्यादि विश्वामित्रवचनैः सर्वप्रायश्चित्तानां सर्वपापचय हेतुतोक्ता एवच्च पापविशेषे प्रायखित्तविशेषोपदेशो मुनौनां तत्तुल्यप्रायश्चित्तप्रदर्शनाय अन्यथा प्रायश्चित्तविशेष कल्पनायामनध्यवसायः स्यात् । अतएव विश्वामित्रेणापि । “कृच्छ्रांस्तु चतुरः कुर्य्यात् गोबधे बुडि पूर्व के” । इत्यादिविशेषवचनेन तदभिहितं तेन प्राजापत्यादिसाध्यपापक्षयस्य तदन्यूनक्लेशे प्रायश्चित्तान्तरसाध्यतापि अतएव । "प्राजापत्यव्रताशक्तो धेनुं दद्यात् पयस्विनौम् । इति प्राजापत्यव्रतानुकल्पत्वेन श्रुतं धेनुदानं तत्तुल्यत्वेन संकलय्य पापान्तरेऽपि कल्प्यते । अतएव बौधायनेन सामान्यत उक्तम् । “बहूनामेकधाणामेकस्यापि यदुच्यते । सर्वेषामेव तत् कुय्यादेकरूपा हि ते स्मृताः ॥ एवं पूर्वोक्तगर्दभपशुयाग साध्यपापनाशस्यापि तदधिकक्लेशेन मरणेन प्रसङ्गात् सिद्धिः । अतएव ब्रह्माबधपापचयार्थिनो गोसहस्रदानेन तदनधिकसर्वपापक्षयमाहाङ्गिराः । " गवां सहस्र ं विधिवत् पत्त्रेिभ्यः प्रतिपादयेत्। ब्रह्महा वै प्रमुच्येत सर्वपापेभ्य एव हि ॥ यमः । " गवाह्निकं देवपूजा वेदाभ्यासः सरित्प्लवः । नाशयन्त्याशु पापानि महापातकाजान्यपि” । गवाह्निकं गोर्दिनभक्ष्यम् अपि ना - सुतरामल्पपापनाशकतावगम्यते । तथा च छन्दोग परिशिष्टम् । "वेदाञ्छन्दांसि सर्वाणि ब्रह्मावाश्च दिवौकसः । जलार्थिनोऽपि पितरो मरीच्याद्यास्तथर्षयः । उपाकर्मणि घोसर्गे नानार्थं ब्रह्मवादिनः । यियासूननुग:
हत्पापनाशकस्य
For Private And Personal Use Only
-४८०