________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायवित्ततत्त्वम् ।
ન્
मरणसम्भवात् । व्रतन्तु द्वादशवार्षिकादतिरिक्तकालिकं न भवति यश्च यावज्जीवनव्रतं तदपि द्वादशवार्षिकद्वैगुण्येन संकलितम् अन्यथा तत्संसर्गियो जोवनकालानियतत्वेन प्रायवित्तकल्पनानध्यवसायापत्तेरेवमेव प्रायश्चित्तविवेकः । अभिसन्धेस्तारतम्यं मातृपोषण परदारत्वादिना । जातेस्तारतम्यं ब्राह्मणत्वादिना । शक्तिबलत्वादिना । गुणस्य विद्यत्वादिना । अनुबन्धः पौनःपुन्येनाभिनिवेशः ।
अथ चान्द्रायणादौ भोजनपरिसंख्या । भोजनस्य रागप्राप्तत्वात् नाप्राप्तप्रापको विधिः । स चाहरहः सन्ध्यामुपासौत इत्येवं रूपम् । नापि तद्भक्षणस्थानावश्यकत्वेन खायो - गव्यवच्छेदमात्रफलको नियमविधिः । स च तत्तत्तिथौ तत्तद्ग्रासान् भुञ्जतैवेत्येवं रूपः । तथा च " स्वरुच्या क्रियमाणे a aarati' क्रिया क्वचित् । चोद्यते नियमः सोऽत्र ऋताभिगमो यथा " ॥ तथात्वे पितृमरणादवपि भोजनं प्रसज्येत हविष्यात्रभोजनव्रतादावपि उपवासाभाव एव प्रपद्येत तद्भक्षणस्य समकालमेवान्यभक्षणेऽपि न दोषः स्यात् । तस्मादगत्या "तार्थस्य परित्यागादश्रुतार्थस्य कल्पनात् । प्राप्तस्व वाधादित्येवं परिसंख्या विदोषिका " ॥ इत्युक्तस्वार्थ हान्यर्था - न्तरकल्पनरागप्राप्तवाधरूपदोषत्रयदुष्टापि श्रन्ययोगव्यवच्छेदफलिका परिसंख्या एव युक्ता सा च सति भोजने तत्तत्तियों तत्तदुग्रासानेव भुञ्जीत नान्यदित्येवं रूपा तस्मात्तदतिरिक्तभोजनाभावपरत्वेन उपवासेऽपि दोषाभावः । तदुक्तं भट्टपादैः । " श्रन्याश्रयमाणा च यान्यार्थ प्रतिषेधिका । परिसंख्या तु सा ज्ञेया यथा प्रोक्षित भोजनम् ॥ अन्यथा प्राजापत्यव्रतेऽपि areमद्यादयाचितमिति । " पयाचितन्तु मध्याह्ने चतुर्विंशतिशहये” । इति ब्रह्मपुराणोक्तस्थायाचितस्यालाभे व्रतलोपा
1
For Private And Personal Use Only