________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४३८
आङ्गिकतत्त्वम् । क्रियासङ्करोहितः। गुणालाभेऽपि कर्त्तव्या विश्वामान्तरिता किया। अभ्यस्यमानाः क्रमशः प्रयोगा जयन्ति रोगान् वलिनः स्थिरांच" । । पथ षड्रसगुणाः। मधुरः प्रौणनो वल्यो वृंहणोऽनिलपित्ता। रसायनी गुरुः स्निग्धश्चक्षुष्यः शीतलच सः ॥ पायुःकद व्रणहा रुच्यः कण्ठोदावर्तनाशकः । अम्लो रुचिकरी हृद्यः प्रोणनो वङ्गिवईनः ॥ वातहा रसनोहेगी स्निग्धोष्णो रतामांसदः। कटनस्तर्पण: पत्ता लघुव्यापि कटश्च यः ॥ लवणः लोदनस्तीक्ष्णः पाचनीदीपनी रसः । निग्धो रुचिकरः स्वन्दी दृष्टिशलकरोऽगुरुः ॥ कटुर्जिह्वास्य नासाक्षि रेचनो रुचिराङ्गकत्। उष्णस्तौक्षणा लघुः कण्डक्कमिशक्लकफापहः । लघुः शोषौ पङ्तिकरः श्लेमा कर्षणकः पटुः। तित: पित्तकफच्छेदी विषकुष्ठज्वरापहः ॥ दीपनः पाचनो रुक्षः कण्डः कमिहरो लघुः । कषायः शोषकस्तम्भो व्रणग्लानातिनाशनः ॥ कफशोणितपित्तनो रुक्षः शीतो लघुस्त था। शीतलः पित्तहा बल्यः कफवातहरो गुरुः॥ उष्णं पित्तकरो वीर्यो वातश्नेमहगे लघुः। शीतं वीर्येण यद्रव्यं मधुर रसपाकयोः । तयोरम्नं कदुषणञ्च यच्चोष्ण कटुक तयोः। कटुतितकषायाणां विपाक: प्रायसः कटुः। अम्लोष्णं पच्यते स्वादु मधुर लवणं तथा। कटुर्विपाके शुक्रनो वइविडूवातलो लघुः । स्वादुगुरुः सृष्टमलो विपाक कफशकलः। पाकेऽम्नः सृष्टविण्मतपित्तकच्छुक्रकलघुः" ॥ गारड़े। “कटुतितकषायाश्च कोपयक्ति समौरणम्। कष्टम्ललवणाः पित्तं स्वाहम्बलवणाः कफम् । अतएव विपर्यस्ताः समायैषां प्रयोजिताः। चक्षुष्यो मधुरोजेयो रसो धातुविबईनः। स्थौल्यालस्यविषधच कटद्दीपनपाचनः।
तथा।
For Private And Personal Use Only