________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाङ्गिकतत्त्वम् । भवाब्धिपोतं वन्दे महापुरुष ते चरणारविन्दम्। त्यत्वा मुटु स्त्यजसुरमितराज्यलक्ष्मों धर्मिष्ठ पार्यवचसा यदगादरण्यम् । मायामृगं दयितयेसितमन्वधावन्दे महापुरुष ते चरणारविन्दम् । एवं युगानुवृत्तिभ्यां भगवान् युगत्तिभिः । मनुजैरौद्यते राजन श्रेयसामौखरी हरिः॥ स्तुत्वा प्रसौद भगबनिति वन्देत दण्डवत्” ॥ तथा “शिरो मत्यादयोः कृत्वा बाहुभ्याञ्च परस्परम्। प्रपन्नं पाहि मामौश भौतं मृत्युमहार्णवात्” इति भगवहाक्यम् । ब्रह्मपुराणे। “यत्किञ्चित् क्रियते देव मया मुक्तदुष्कृतम्। तत्सर्वं त्वयि संन्यस्त त्वत्प्रयुक्तः करोम्यहम्” इत्यनेन सर्व समर्पयेत् श्रीभागवते । *मन्वहीनं क्रियाहीनं भक्तिहीनं जनार्दन । यत् पूजितं मया देव परिपूर्ण तदस्तु मे ॥ कालिकापुराणे। “यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत्। क्षन्तुमर्हसि मे देवि कस्य न स्खलितं मनः” ॥ पुरश्चरणचन्द्रिकायाम्। “सुषुम्ना वर्मना पुष्पमाघ्रायोहासयेत् सुधीः । निर्माल्यं मस्तके धार्य सर्वाङ्गेष्वनुलेपनम् ॥ नैवेद्यच्चोपयुञ्जौत दत्त्वा तत् भक्तिशालिने" ॥ भक्तिशालिने विष्वक्सेनाय। षष्ठस्कन्धेऽपि “उद्दास्य देवं खे धानि तन्निवेदितमग्रतः। अद्यादात्मविशुद्दाथं सर्वकामसमृद्धये" ॥ स्खे धाम्नि स्वीयहृदये। उहास्य संस्थाप्य तथाच कालिकापुराणे। "ध्यायंस्तु मन्त्रेणानेन तत्रस्थं स्थापयेत् हृदि। तिष्ठ देवि परे स्थाने स्वस्थानं परमेश्वरि । यत्र ब्रह्मादयः सव सुरास्तिष्ठन्ति मे हृदि" भविष्ये। “निर्माल्यं नोपभोक्तव्यं रुद्रस्य तपनस्य च । उपयुज्य च तन्मोहाबरके पच्यते ध्वम्” ॥ निर्माल्यमाने तु "उदके तरूमूले वा निर्माल्यं तस्य संत्यजेत्” । कालिकापुराणे। “यो यह वार्चनरतः स तन्नै वेद्य भक्षकः” ब्रह्मपुराणे "अम्ब रोषनवं वस्त्र फलमन्यद्रसा.
For Private And Personal Use Only