________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३८४
आह्निकतत्त्वम् । प्रातदुःस्वप्नदर्शने। चित्रमित्युपतिष्ठेत विसन्ध्यं भास्करन्तथा ॥ समित्याणिनरो नित्वं प्राप्नुयाच्च धनायुषो। उदित्युद्यन्तमादित्य मुपतिष्ठेहिने दिने । क्षिपेजलाञ्जलीन् सप्त मनीदुःखविनाशने" ॥ व्युष्टायां गतायां तदनन्तरं ब्रह्मवरुणविष्णु रुद्रेभ्यः प्रत्येकम् अञ्जलीन् दद्यात् इत्यपि पिदयिता। समति: "एतदष्टाक्षरं मन्त्र जपनारायणं स्मरेत् । सन्ध्यावसाने सततं सर्वपापैः प्रमुच्यते” ॥ नारसिंहे। “अध्यं दद्यात्त सूर्याय त्रिकालेषु यथाक्रमात् । अशक्त एककालेऽपि मध्या
पि विशेषतः ॥ सन्ध्यां कृत्वा तु दत्त्वायं ततः पश्येदिवाकरम्। सन्ध्यानन्तरमयं दानं ब्रह्मयज्ञतर्पणयोरकरणे तयोः करणे तु सामगानां ब्रह्मयज्ञानन्तरम् । अन्येषां तर्पणानन्तरं तथाच ब्रह्मयज्ञानन्तरम् । नरसिंहपुराणम् । “ततो. ऽध्य भानवे दद्यात्तिलपुष्यसमन्वितम्। उत्थाप्या मूई पर्यन्तमवेक्ष्य भास्करन्तथा” इति तर्पणानन्तरं विष्णुपुराणम् । "आचम्य च ततो दद्यात् सूर्याय सलिलाञ्जलिम्। नमो विवखते ब्रह्मन् भाखते विष्णुतेजसे ॥ जगत् सवित्रे शुचये सवित्रे कमंदायिने। आदित्याय नमस्तुभ्यं प्रसौद मम भास्कर ॥ दिवाकर नमस्तेऽस्तु प्रभाकर नमोऽस्तु ते। ततो गृहार्चनं कुर्यादभौष्टसुरपूजनम् ॥ जलाभिषेकपुष्पाणां धूपा. दौनां निवेदनैः” ॥ पद्मपुराणे “सम्पूज्य प्रणमेत् सूर्यं समाहितमनास्ततः । नमस्ते विष्णुरूपाय नमस्त ब्रह्मरूपिणे॥ सहस्ररश्मये नित्य नमस्त दिव्यचक्षुषे। नमस्ते रुद्रवपुषे नमस्त भक्तवत्सल ॥ पद्मनाभ नमस्तेऽस्तु कुण्ड लाङ्गदभूषण। नमस्ते सर्वलोकेश सुप्तानामपि बुझते ॥ सुक्कतं दुष्कृतं वापि सवं पश्यसि सर्वदा । सर्वदेव नमस्तेऽस्तु प्रसौद मम भास्कर॥ दिवाकर नमस्तऽस्तु विभाकर नमोऽस्तु ते। एवं हिजो नम
For Private And Personal Use Only