________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
थाहतत्त्वम् ।
३१७ पावणेत्वासनादिदर्भवत् पयंदानेऽपि पवित्रदानस्य दक्षिणाग्रत्व प्रतीयते। मधुमध्विति यस्तत्रेति पावणे भोक्नुमिच्छता ब्राह्मणानां श्राव्यत्वेन मधुव्यप्रकाशकमध्विति विजयो मधुवातेति मन्त्रसहितो गायत्रीजपानन्तरं क्रियते सोऽत्र मधु वातेति मन्त्रवर्जित: कार्यः । एतेन भोजनादिकालवये मधुमन्वपाठो न निषिद्धः मधुमन्त्र पाठनिषेधाच मधुनो नि. त्ति स्तोत्यवगम्यते। अन्यथा प्रधाननिवृत्तौ गुणनिहत्तेरप्यर्थसिद्धत्वात् विधातुमयोग्यत्वात्। न च गुणनिवृत्त्या प्रधाननिवृत्तिः गुणलोपे न मुख्यस्येति न्यायविरोधात् मधुमविति जपाभ्यनुज्ञानञ्च न स्यादिति श्रावविवेकः। पितृसंहिताया. मिति पितृमहत्त्वप्रकाशकमन्त्रमावोपलक्षणार्थम् । यस्तत्रेति सत्र पार्वणे तृप्तेषु ब्राह्मणेषु अवस्य प्रकारोऽन्नस्य विकरणं तिलवत्तिलयुक्त यथा स्यात्तथोक्तम् अत्र तु यवयुक्त यथा स्यात्तथा विपरीतक: अतृप्तेषु ब्राह्मणेषु कार्यः। कल्पतरुस्तु विरोतको देवतीर्थादिदानेनेत्याहतदयुक्तम् । “पात्राणां पूरणादीनि देवेनैव हि कारयेत्” इत्यनेन प्राप्तत्वेनानुवादकतापत्तेः । पार्वणे तृप्तास्थ इति यः प्रश्नस्तत्स्थाने सम्पन्नमिति वाच्यं प्रश्नानन्तरं सुसम्पन्नमिति ब्राह्मणैः प्रोक्त शेषमन्नं क देयमिति पुच्छेत् । इष्टेभ्यो दौयतामिति प्रतिवचनम्। “स तानाह पुनः क देयञ्चाबमित्यपि। इष्टेभ्यो दीयतामेतत् इति सम्पपदन्ति से” ॥ इति ब्रह्मपुराणात्। पाद्यं पितरं पूर्ववत् गोवसम्बन्धनामभिरामन्त्रा हितौयं पितामहंततौयं प्रपितामह मध्यदेशाग्रदेशयोर्दर्भस्येति शेष: एतेषां पिण्डस्थाने आवाहितानां पित्रादीनां वामतो दक्षिणस्यां दिशि एवञ्चेत् कत्तुंदक्षिणोपचारो भवति एतेन कत्यप्रदौपे दक्षिणस्थितप्रागग्रकुशमूलमध्याग्रेषु मानादिम्यो मध्यस्थितप्रागनकुशमूलमध्या;
For Private And Personal Use Only