________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्राथतत्त्वम् ।
षण्मासे विपचे यदहर्वा वृडिरापद्येत तदहचत्वादकपावाणि सतिलगन्धपुष्पोदकानि पूरयित्वा त्रीणि पितृणामेक प्रेतस्य प्रेतपात्र पिटपात्रेष्वासिञ्चति । ये समानाः समनसः पितरो यमराज्ये तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् । ये समाना: समनसो जीवाजीवेषु मामकाः तेषां श्रयि कल्पतामस्मिन् लोके शतं समाः” । इति एतेनैव पिण्डो व्याख्यात इति । पूर्णे संवत्सरे इति मुख्यकल्पः । तदशक्तौ नवमो मास: संवत्सरान्ते विसर्जन' " नवममास्यमित्येके” इति पैठोनसिवचनात् । तदशक्तौ षष्ठो मासः । aartreat त्रिपक्षः तत्राप्यशक्तौ श्रशौचापगमे प्रथममासस्य द्वादभिर्दिनैई दशमासिकानि श्राद्धानि निर्वर्त्य वयोदशाह: सपिण्डीकरणकालः शूद्रस्य द्वादशाहो न तु त्रयोदशाह एव मासिकार्थवत् द्वादशाहश्राद्धं कृत्वा त्रयोदशेऽह्नि वा तत् कुर्य्यात् मन्त्रवज्यं हि शूद्राणां द्वादशेऽनौति विष्णुवचनात् । मासिकादिति मासिकार्थो मासि मासि क्रियमाणवादप्रयोजन प्रेताप्यायनादि तत् युक्तं द्वादशाह क्रियमाणवादमित्यर्थः । यत्र त्वेकादशमासाभ्यन्तरेऽधिमासपातस्तत्र त्रयोदशसु दिनेषु त्रयोदशमासिकानि कृत्वा चतुर्दशेऽह्नि सपिण्डन' कार्य्यमिति "संवत्सराभ्यन्तरे यद्यधिमासो भवति तदा मासिका दिनमेकं वईयेत्” इति विष्णुवाक्यात् शूद्रस्य त्रयोदशदिनेषु त्रयोदशमासिकानि त्रयोदशेऽह्नि सपिण्डनं दृष्टपरिकल्पनान्यायात् । एवच श्रवद्दिमात्र न दिनवृष्टिरिति मिश्रोक्त' हेयम् । तद्धृतविष्णुले दिनमेकं वईयेदिति श्रुतेः । श्रादाधिक्यमाह सत्यव्रतः “संवत्सरस्य मध्ये तु यदि स्यादधिमासकः । तदा त्रयोदशे श्राद्ध कार्य्यन्तदधिक ं भवेत् । तत्राप्यशक्ती प्रथममासस्यैकाच एव द्वादश
२५.
१८६
For Private And Personal Use Only