________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । ब्रह्मपुराणे प्रेताय दानानन्तरं ततः पितामहादिभ्य इति शाब्दक्रमस्यावाधेनाध्य पात्रेषु गन्धपुष्पदानपर्यन्तं पिटपूर्वकता उत्सगे तु प्रेतपूर्वकता। यथाचमने “अक्षिणी नासिके कौ" इति गोभिलसूत्रस्थपाठक्रममुना “अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम्। अङ्गष्ठानामिकाभ्याञ्च चक्षुः थोवे पुनः पुनः” " इति दक्षोक्त शाब्दक्रमो ग्यत इति अतएव छन्दोगपरिशिष्टेन सूत्रक्रमान्यथात्व स्पष्टीकृतं यथा “त्रिः प्राश्यापो दिसन्मुज्य मुखमतान्युपस्पृशेत्। आस्यनासाक्षिकर्णांश्च नाभिवक्ष: शिरोऽशकात्” ॥ एतेनानुसष्टजलेन अनुत्सृष्टजल समन्वयोत्तरोत्सर्ग: पिटदयितायामुक्तो निरस्तः । ब्रह्मपुराणे ये समाना इति स्मरणानन्तरं जलप्रक्षेपमात्राभिधानेन पूर्वमुत्सर्गप्रतीते: एवं संस्रवजलसमन्वयस्तु मैथिलोक्तोऽपि न युक्तः प्रागुक्त वचनेषु समन्वयोत्तराय॑निवेदनोलः स्वयमाचमेदित्येव पाठः कल्पतरौ तथा दर्शनात् प्राचमनं कुर्य्यादिति वाचस्पतिमिश्रव्याख्यानाञ्च । आचमेदिति इखश्छान्दमः आचरेदिति तु लेखकप्रमादपाठः अत्र च शेषमनमनुजाप्य सर्वमन्नमेकत्रोइत्य उच्छिष्टसमौपे दर्भेषु मधुमध्विति अक्षनमो मदन्तेति जपित्वा वी स्त्रीन् पिण्डान् दद्यात्" इति गोभिलसूत्रेण "सर्वस्मात् प्रकतादन्नात् पिण्डान् मधतिलान्वितान् द्रव्यशेषेणा" इत्यनेन च श्राद्रव्यशेषद्रव्येणैव पार्वणे पिण्डविधानात् तहिकतावपि सपिण्डीकरणे तन्नियमात् यद्यपि शेषाभावे पिण्ड निवृत्तिरायाति तथापि यथोक्तवस्त्वसम्पत्ती ग्राह्यं तदनुकारि यत्। “यवानामिव गोधमा बोहोणामिव शालयः” । इति छन्दोगपरिशिष्टात् “मुख्याला प्रतिनिधिः शास्त्रार्थः" इति न्यायाञ्च मध्वाद्यभावे गुड़ादिग्रहणवत् । द्रव्यान्तरेणापि पिण्डदानं शेषद्रव्यनियमस्तु तत्सम्भवे द्रव्यान्तरत्यागाय अन्यथा तदङ्गाभावे कम्मवैगुण्यं स्यात् “सहपिण्डक्रियायाम्" इति मनतः पिण्ड स्य प्रेतपिण्डेन सहमित्रोकरणं योति सपिण्डीकरणसमाख्यासिद्धार्थ सुतरां तत्र तथाचरणं प्रतिपत्तिरूपकमाङ्ग एव प्रतिपाद्याभावे तत्रिवृत्तिः “पशुयागे लोहितं निरस्यति शबिरस्यति" इत्यादावता। अतएव
For Private And Personal Use Only