________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
यादतत्त्वम् । सैकतम् । मण्डलं चतुरस्र वा दक्षिणाव नतं महत् । पवित्रपाणिव जपेन्मन्त्रं रक्षोत्रमुत्तमम्। निहन्मि सर्वं यदमेध्यवद्भवेहताच सर्वेऽसुरदानवा मया ॥ रक्षांसि यक्षाः सपिशाच. सङ्घा हता मया यातुधानाश्च सर्वे"॥ इति दक्षिणादिक् श्राद्धकर्व पेक्षयेति कल्पतरुः गोभिल सूत्रेऽपि उच्छिष्ट समीप इत्युताम् अतएव ब्रह्मपुराणोक्त दिगन्तभिधानं शाख्यन्तरीयम् । अत्र मण्डलमुपक्रम्याभिहितेन “निहन्मि सर्वमित्यादिर्यस्मिन् देशे च पठ्यते । एष मन्त्रस्तु तं देशं गक्षसा वजयन्ति हि" इति ब्रह्मपुराणे निहन्मौत्यनेन मण्डल करणं प्रतीयते । अनि गद्यभट्टप्रभृतिभिरपि तथा लिखितम्। पिण्ड पिटयज्ञातिदेशेन तत्प्रकृतिभूतान्वष्टका पिण्डोक्तरेखां मण्डलमध्ये कुर्यात् । सव्येन पाणिना दर्मपिञ्जलिं गृहीत्वा रेखामुलिखेत् । अपहतेति अन्वष्टकायां गोभिल्लगृह्यात्। अत्र वामेन दर्भपिञ्जल्याग्रहणमात्रं रेखान्तु वामान्वारब्धेन दक्षिणइस्तेन कुर्य्यात्। “सव्येन पाणिनेत्येवं यदवासकदीरितम् । परिग्रहणमात्रन्तु सव्यस्यादिशति ध्रुवम् ॥ पिचल्याद्यभिसंग्राह्य दक्षिणेनेतरात् करात्। अन्वारभ्य च सत्येन कुर्यादुल्लेखनादिकम्” इति छन्दोगपरिशिष्टात्। अत्र दर्भपिञ्जल्य वनेजनार्थोदकपात्रवासः सूत्रादिग्रहणे यत् सव्येनेति वारं वारं गोभिलरह्योक्तं तत्र सव्यस्योपदेशो दर्भपिञ्जल्यादिग्रहणार्थः। उल्लेखनादिकन्तु वामकराक्षिणकरण दर्भपिचल्यादिकं नौत्वा वामान्वारब्ध दक्षिणेन रेखादिकं कुर्यादियर्थः। पिञ्जलीपवित्रम्। “अनन्तर्गर्भिणं साय कोशं हिदलमेव च । प्रादेशमात्र विज्ञेयं पवित्र यत्र कुत्रचित् । एतदेत हि पिञ्जल्यालक्षणं समुदाहृतम्” इति छन्दोगपरिशिष्टात्। अत्र ग्राह्य रेखाकरणे अपहता इत्यत्र इति कार
For Private And Personal Use Only