________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८८
तिथितत्त्वम् ।
"
रनन्त पुण्यास्तिथयश्वतस्रः । उपप्लवे चन्द्रमसो रवेश्च विश्वष्टकास्वप्ययनदये च ॥ उपप्नवे ग्रहणे "पानीयमप्यत्र तिलेविमिश्र दद्यात् पितृभ्यः प्रयतो मनुष्यः । श्राद्ध कृतं तेन समाः सहस्रं रहस्यमेतत् पितरो वदन्ति ॥ स्नानमधिकृत्य भविष्ये । “संवत्सरफलं तत्र नवम्यां कार्त्तिके तथा । मन्वादी च युगादौ च मासत्रयफलं लभेत् " ॥ विरुद्ध गुरुवाक्यस्य यदत्र भाषितं मया । तत्क्षन्तव्यं बुधैरेव स्मृतितत्त्वबुभुया " ॥ स्मृतितत्त्व प्रसादाद् यद्दिरुद्द बहुभाषितम् । गुणलेशानुरागेण तच्छोध्य धर्मादर्शिभिः । इति वन्द्यटय श्री हरिहर भट्टाचाय्यात्मज - श्रीरघुनन्दन भट्टाचार्यविरचिते स्मृतितत्त्व तिथितत्त्व समाप्तम् ।
For Private And Personal Use Only