________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६४
तिथितत्त्वम् ।
प्रयोगो यथा । ऊनविंशति दास्यमानपिण्डस्थानानि यथा दक्षिणं भागचतुष्टयेन कृतानि तव दक्षिणाग्रान् कुशानास्तौर्य " मत कुले मृता ये च गतिर्येषां न विद्यते । आवाहयिष्ये तान् सर्वान् दर्भपृष्ठ तिलोदकैः ॥ मातामहकुले ये च गतिर्येषां न विद्यते । श्रावाहयिष्ये तान् सर्वान् दर्भपृष्ठ तिलोदकैः ॥ बन्धुवर्गकुले ये च गतिर्येषां न विद्यते । श्रावाइयिष्ये तान् सर्वान् दर्भपृष्ठ तिलोदकैः ॥ इत्येतैस्तिलोदकैरावाह्य ब्रह्मस्तम्भपय्र्यन्तं देवर्षिपितृमानवाः । तृप्यन्तु पितरः सर्वे मातृमातामहादयः । भतौतकुलकोटौनां सप्तदौपनिवासिनाम् ॥ चाब्रह्मभुवनाल्लोकादिदमस्तु तिलो दकम् ॥ इत्येताभ्यां तिलोदकाच्चलीन् दद्यात् ततो मूलादितः पितृतीर्थेन पिण्डान् दद्यात् तत्र क्रमः । “ अस्मत्कुले मृता ये च गतिर्येषां न विद्यते । तेषासुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ मातामहकुले ये च गतिर्येषां न विद्यते । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ बन्धुवर्गकुले ये च गतिर्येषां न विद्यते । तेषामुहरणार्थाय इमं पिण्डं ददाम्यहम् ॥ प्रजातदन्ता ये केचित् ये च गर्भे प्रपोडिताः । तेषामुहरणार्थाय इमं पिण्डं ददाम्यहम् ॥ अग्निदग्धाच ये केचिन्नाग्निदग्धास्तथा परे। विद्युञ्चौरहता ये च तेभ्यः पिण्ड़ ददाम्यहम् ॥ दावदाहे मृता ये च सिंहव्याघ्रताश्च ये । दंष्ट्रिभिः शृङ्गिभिर्वापि तेभ्यः पिण्डं ददाम्यहम् ॥ उदन्धनमृता ये च विषशस्त्र हताश्च ये । श्रात्मोपघातिनो ये च तेभ्यः पिण्ड' ददाम्यहम् ॥ अरण्ये वर्त्मनि वने चधया टपया हताः । भूतप्रेतपिशाचाश्च तेभ्यः पिण्डं ददाम्यहम् ॥ वने जले । " रोरवे चान्धतामिस्र कालसूत्रे च ये स्थिताः । तेषामुरणार्थाय इमं पिण्डं ददाम्यहम् ॥ अनेक यातना - संस्थाः प्रेतलोके च ये गताः । तेषामुद्धरणार्थाय इमं पिण्ड ददाम्यहम् ॥ अनेक यातनासंस्था ये नौता यमकिरेः । तेषामुरणार्थाय इमं पिण्डं ददाम्यहम् ॥ नरकेषु समस्तेषु यातनासु च ये स्थिताः । तेषामुद्दरणार्थाय इमं पिण्ड ददाम्यहम् ॥ पशुयोनिगता ये च पचिकौट सरीसृपाः ।
For Private And Personal Use Only