________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्वम् ।
भिधानात् राहु दृष्ट्वाऽक्षयं नर इत्युक्तात्वात् यावद्दर्शनगोचर इति वचनाच तच्च दर्शनं चाक्षुषजानं न ज्ञानमात्रं चन्द्रसूर्योपरागस्य स्नानादौ संक्रान्तिवत् ज्ञातस्य व निमित्तत्वात ज्ञाने प्राप्ते राहुदर्शन इति वचने चन्द्रसूर्योपरागे च यावद्दशनगोचर इति जावाल वचने च दर्शनपदाच्चाक्षषज्ञानविषयः स्यैव निमित्तता विधीयते तत्रैव दृशमुख्यत्वात्। तथा च संवत्सरप्रदीपे। “चक्षुषा दर्शनं राहोर्यत्तद्ग्रहण मुच्यते । तत्र कर्माणि कुर्वीत गणनामात्रतो न तु” ॥ ग्रहणं ग्रहणनिमितक कर्मप्रयोजकं राहदर्शनमप्याख्यातोपस्थापित नानादि कर्तुः सान्निध्यात्तनिष्ठमेव लाघवात। अन्यथा “सौमन्तोअयने चैव पत्रादिमखदर्शने। नान्दौमुखं पिगणं पूजयेत् प्रयतो सही" ॥ इति विष्णु पुराणेऽपि वपुत्रस्यान्यकर्तक मुख. दर्शने जातेऽपि थाई प्रसज्येत। पूर्वनिखित मार्कण्डेयवचने दृष्ट्वेति वा अवणाच्च हेमाद्रिस्तु यावद्दर्शनगीचरस्तावत् पुण्यकालो यदास्त गतः। न दृश्यते तदा न पुण्य कालः । तथा च ग्रस्तास्तमिते वशिष्ठः पूर्वमेव मानार्थ तिष्ठति नोद्ध। देव. लोऽपि “यथा स्वानञ्च दानञ्च सूर्यस्य ग्रहणे दिवा। मोमस्यापि तथा रात्रौ स्नानं दानं विधीयते ॥ निगमोऽपि "सूर्यग्रहो यदा गत्री दिवा चन्द्र ग्रहो भवेत्। तत्र स्नानं न कुर्वीत दद्यात् दानं न कुत्रचित् ॥ इत्याह माधवाचार्योऽपि ग्रस्ता: स्तमयपर्यन्तं दर्शनयोग्यत्वात्तावान् पुण्य कालो भवतीत्याह । एतेनान्यकर्तक दर्शने प्रस्तास्तानन्तरञ्च यत् स्नानादिकमभि हितं नागयगोपाध्यायेन त यमिति । ___ एवञ्च ग्रस्तास्ते ग्रस्तोदये च पुरश्चरणं न सम्भवति स्पर्शा: हिमुक्तिपर्यन्तमित्यभिधानात्। यथा पुरश्चरणचन्द्रिकादिषु । "अथवान्य प्रकारेण पुरश्चरणमिष्यते। ग्रहणेऽस्य चेन्दो - शुचिः पूर्वमुपोषितः। नद्यां समुद्रगामिन्यां नाभिमानजले स्थितः। यहा पुण्योट के सात्वा शुचिः पूर्वमुपोषित:। ग्रहगादि विमोक्षान्तं जपेन्मन्नं समाहितः। अनन्तरं दशांशन क्रमाद्धोमादिकञ्चरेत्। तदन्ते महती पूजां कुर्यात् ब्राह्मण: तर्पणम्। ततो मत्वप्रसिद्धार्थ गुरु संपूज्य तोषयेत्। एवञ्च
For Private And Personal Use Only