________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीगणेशाय नमः।
तिथितत्त्वम् ।
प्रणम्य सच्चिदानन्दं रामं कामदमौखरम् । तिथ्यादितत्त्व तत्प्रोत्यै वक्ति श्रीरघुनन्दनः ॥
तत्र तिथिस्वरूपमाह हेमाद्रिकालमाधवीययोः स्कान्दे प्रभासखण्डम् । “अमा षोड़शभागेन देवि प्रोक्ता महाकला। संस्थिता परमा माया देहिनां देहधारिणौ ॥ अमादिपौणमास्यन्ता या एव शशिनः कलाः। तिथयस्ता: समाख्याता: षोड़शैव वरानने” ॥ चन्द्रमण्डलस्य षोड़शभागेन परिमिता देहधारिणी प्राधारशक्तिरूपा अमानाम्नी महाकला प्रोक्ता क्षयोदयरहितत्वान्नित्या सक्सूत्रवत् सर्वानुस्यूता तदन्या: पञ्चदश कला: प्रतिपदादितिथिविशेषरूपा इति षोड़शैव कलास्तिथय इति। अत्र प्रथमकला क्रियारूपा प्रतिपत् एवं द्वितीयादिकला क्रियारूपा द्वितीयादिः सा च हद्धिरूपा चेत् शुक्ला हासरूपा चेत् कृष्णेति। तथा च षट्त्रिंशन्मतम्। तत्र पक्षावुभौ मासे शुक्लकृष्णो क्रमेण हि। चन्द्राधिकरः शुक्लः कृष्णचन्द्र क्षयात्मकः ॥ पक्षल्याद्यास्तु तिथयः क्रमात् पञ्चदश स्मता: । दर्शान्ताः कृष्णपक्षे ता: पूर्णिमान्ताश्च शुक्ल के" ॥ पक्षतिः प्रतिपत् एतत्सवं क्रियैव काल इति मतानुसारादुक्तं तदतिरिक्त कालवादिमते तु तत्तक्रियोएलक्षित: काल इति। यथा विष्णु पुराणे । “कालस्वरूपं रूपं तद्विषणोमवेय वर्तते" । विष्णुधर्मोत्तरे च । “अनादिनिधनः कालो रुद्रः सङ्ग.
For Private And Personal Use Only