________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्वम् ।
११९
रत् ॥ कुलं पुरुषमिति याज्ञवल्कादीपकलिका। तथा च मेदिन्यां “कुलं जनपदे गोवे सजातौयगणेऽपि च। भवने च तनौ लोवं कण्ट कार्योषधो कुलो" ॥ अत्र संज्ञाविधेः सार्थकत्वाय निमित्तत्वेन मासप क्षतिथ्युल्लेखानन्तरं महा. वारुणौ महामहावारुण्यावल्लेखनौये श्राद्धे पार्वणादि संज्ञोलखवत् पौर्णमास्यमावास्ययोः पक्षोल्लेखवच्च । “मासपक्षतिथौनाञ्च निमित्तानाञ्च सर्वशः। उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत् ॥ इति वचनात्। तेन चेत्ने मासि कृष्णपक्षे त्रयोदश्यां तिथौ महावारुण्यां महामहावारण्यां यथायथं प्रयोज्यम्। वारस्तु सूर्योदयादुदयान्तरं यावत् तथा च सूर्य सिद्धान्तः “सूतकादि परिच्छेदा दिनमासाब्दपास्तथा। मध्यम ग्रहभुक्तिश्च सावनेन प्रकीर्तिताः। उद. यादुदयाद्भानोभौम सावन वासरा:" ॥ दिनाधिपस्य रव्यादर्भाग्यं दिनं वाररूपं सावनगणनेनोक्तं भौमेति पित्रादिदिन व्यावृत्त्वर्थ कोम पामयोः “हो तिथ्यन्तावेकवारे यत्र स्यात् स दिनक्षयः” ॥ वशिष्ठः । “एकस्मिन् सावने त्वनि तिथौनां त्रितयं यदा। तदा दिनक्षयः प्रोक्तस्तत्र साहसिकं फलम्” ॥ इत्येतयोर्वचनयोरेकवाक्यतयापि तथावगम्यते । रेखापूर्वापरयोरित्यादिकन्तु ज्यातिःशास्त्रोक्तं कालहोगदिज्ञानार्थमिति। अत्र “संक्रान्तिषु व्यतीपाते ग्रहणे चन्द्रसूर्ययोः। पुष्थे मात्वा च गङ्गायां कुल कोटौः समुद्धरेत्” । इति ब्रह्माण्ड पुराणात् ग्रहणमात्र त्रिकोटि कुलोद्धरणविधानात् ततोऽधिकेष वारुण्यादिषरोत्तरगुरुषु महामहावारुण्यामपि यत् त्रिकोटि कुलोद्धरणमुक्तं तदुद्धरणगततारतम्येनाविरुद्धम्। “यं यं क्रतुमधोते च तस्य तस्याप्नुयात् फलम्” ॥ इति याज्ञवल्कयोक्ताध्ययनात् यथा तत्तयागकरणेऽधिक फलम् श्रतएव शिष्टानामादरोऽपि तथेति। न चान "सानं कुर्वन्ति था नार्यश्चन्द्रे शतभिषां गते। सप्तजन्म भवेयुस्ता दुर्भगा विधवा ध्रुवम् ॥ इति। "त्रयोदश्यां टतीयायां दशम्याञ्च विशेषतः। शूद्रविट क्षत्रियाः स्नानं नाचरेयुः कथञ्चन” इति प्रचेतोजावालवचनाभ्यां स्त्रीणां शूद्रादौनाञ्च माननिषेध
For Private And Personal Use Only