________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तत्तो कुमरकएणं, साहज्जेणं स साहगो पुरिसो । लीलाइ सिद्धविज्जो, जाओ एगाइ रयणीए ॥३६८॥ तत्तो साहगपुरिसेण तेण कुमरस्स ओसहीजुअलं । पडिउवयारस्स कए, दाऊणं भणियमेयं च-॥३६९॥ जलतारिणी अ एगा परसत्थनिवारिणी तहा बीया । एयाउ ओसहीओ, तिधाउ मढियाउ धारिज्जा ॥३७०॥ कुमरेण समं सो विज्जसाहगो जाइ गिरिनियंबंमि । ता तत्थ धाउवाइअपुरिसेहिं एरिसं भणिओ ॥३७१॥ देव ! तुह दंसिएणं, कप्पपमाणेण साहयंताणं । केणावि कारणेणं अम्हाण न होइ रससिद्धी ॥३७२॥
ततः -तदनन्तरं कुमारकृतेन साहाय्येन स साधकः पुस्यो लीलया एव एकस्यां रजन्यां सिद्धा विद्या यस्य स सिद्धविद्यो जातो-भूतः ॥३६८॥ ततः- तदनन्तरं तेन-साधकपुरषेण प्रत्युपकारनिमित्तं कुमारस्येति-कुमाराय औषधीयुगलं-द्वे औषध्यौ दत्त्वा एतद्भणितं-उक्तम् ॥३६९॥ किं भणितमित्याह- अनयोरौषध्योर्मध्ये एका औषधी जलतारणी वर्त्तते, तथा द्वितीया औषधी परस्य-शत्रोः शस्त्रस्य निवारणी अस्ति, एते द्वे औषध्यौ त्रयाणां धातूनां समाहारस्त्रिधातु-स्वर्णरूपताम्रात्मकं धातुत्रयं तत्र 'मढियाओंत्ति प्रक्षिप्ते विधाय त्वं धारयः ॥३७०॥स विद्यासाधकः पुमान् कुमारेण सम-सह यावगिरिनितम्बे-पर्वतकटके याति तावत्तत्र धातुवादिकपुरुषैरीदृशं भणितः- ईदृग् वचनमुक्तमित्यर्थः॥३७१॥हे देव! त्वदर्शितेन कल्पप्रमाणेन साधयतांरससिद्धिं कुर्वतामस्माकं केनापि कारणेन रसस्य-सुवर्णोत्पादकरसस्य सिद्धिः-निष्पत्तिर्न भवति ॥३७२॥
********************
****
For Private and Personal Use Only