SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 223 *-*-*-*-*-*-***************** कुमरो कहेइ अम्मो !, तुम्हेहिं सहागयाहिं सब्वत्थ । न भवामि मुक्कलपओ, ता तुम्हे रहह इत्थेव ॥३५३॥ मयणा भणेइ सामिअ !, तुम्हं अणुगामिणी भविस्सामि । भारंपि हु किंपि अहं न करिस्सं देहछायब्व ॥३५४॥ कुमरेणुत्तं उत्तमधम्मपरे देवि ! मज्झ वयणेणं । नियसस्सूसुस्सूसणपरा तुमं रहसु इत्थेव ॥३५५॥ मयणाऽऽह पइपवासं, सइओ इच्छंति कहवि नो तहवि । तुम्हं आएसुच्चिय, महप्पमाणं परं नाह !॥३५६॥ अरिहंताऽऽइपयाई, खणंपि न मणाउ मिल्हियब्वाइं । नियजणणिं च सरिज्जसु, कइयावि हु मंऽपि नियदासिं ॥३५७॥ कुमारः कथयति-हे अम्ब ! युष्माभिः सह आगताभिः सतीभिः अहं सर्वत्र प्रदेशे मुत्कलपदो- मुत्कलचरणो नो भवामि, तस्माद् यूयमत्रैव अवतिष्ठध्वम् ॥३५३॥ मदनसुन्दरी भणति- हे स्वामिन् ! अहं युष्माकम् अनुगामिनी-पश्चात्संचारिणी भविष्यामि, हु इति निश्चितं, भारमपि किमपि न करिष्ये, का इव ?-देहस्य छाया इव ॥३५४॥ कुमारेणोक्तं- हे उत्तमधर्मपरेसद्धर्मतत्परे ! हे देवि! मम वचनेन त्वं नित्यं निजश्वश्र्वाः शुश्रूषणं- सेवनमेव परं-प्रधानं यस्याः सा एवंविधा सती अत्रैवावतिष्ठस्व ॥३५५॥ तदा मदनसुन्दरी आह-सत्यः- सुशीला नार्यः कथमपि-केनापि प्रकारेण पत्युः प्रवासं भर्तुर्विदेशगमनं न इच्छन्ति, तथापि हे नाथ! मम परं-केवलं युष्माकमादेशः-आजैव प्रमाणम् ॥३५६॥ भवद्भिः अर्हदादिपदानि क्षणं यावदपि निजमनसो न मोक्तव्यानि-न दूरीकर्तव्यानि, च - पुनः निजजननीं स्मरिष्यध्वं, कदापि च मामपि निजदासीं स्मरिष्यध्वम् ॥३५७॥ -*-*-*-*-*-*-*-*-*-*-*-*-*-*-* *-*-*-*-* For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy