________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*-*-*-*-*-*-*-*-*****************
F
ता जइ सभुयज्जिअ सिरिबलेण गिण्हामि पेइअं रज्जं । ता होइ मज्झ चित्तंमि निबुई अन्नहा नेव ॥३४८॥ तत्तो गंतूणमहं, कत्थवि देसंतरंमि इक्किल्लो । अज्जिअलच्छिबलेणं, लहुं गहिस्सामि पिअरज्जं ॥३४९॥ तं पइ जंपइ जणणी, बालो सरलोऽसि तंसि सुकुमालो । देसंतरेसु भमणं, विसमं दुक्खावहं चेव ॥३५०॥ तो कुमरो जणणी पइ, जंपइ मा माइ ! एरिसं भणसु । तावच्चिय विसमत्तं, जाव न धीरा पवति ॥३५१॥ पभणइ पुणोऽवि माया,वच्छय! अम्हे सहागमिस्सामो । को अम्हं पडिबंधो, तुमं विणा इत्थ ठाणमि?॥३५२॥
तस्माद् यदि स्वभुजाभ्याम् अर्जिता-उपार्जिता या श्रीः-लक्ष्मीस्तस्या बलेन पितुरिदं पैतृकं राज्यं गृह्णामि तर्हि मम चित्ते निवृत्तिः-सुखं भवति, अन्यथा-अन्येन प्रकारेण सुखं नैव भवेत् ॥३४८॥ ततः-तस्मात्कारणात् अहमेकाकी सन् कुत्रापि देशान्तरे गत्वा स्वोपार्जितलक्ष्मीबलेन लघु-शीघ्रं पितृराज्यं ग्रहीष्यामि ॥३४९॥ तं श्रीपालं प्रति जननी-माता जल्पति-वक्ति, हे पुत्र ! त्वं बालोऽसि, पुनः सरलः-ऋजुरसि, पुनः सुकुमालोऽसि, देशान्तरेषु भ्रमणं तु विषमम्, अत एव दुःखावहंदुःखकारकमेवाऽस्ति ॥३५०॥ ततः कुमारो जननीं प्रति जल्पति- हे मातः! ईदृशं वचो मा भण-मा कथय, कार्यमात्रस्य विषमत्वं तावदेवाऽस्ति यावत् धीरा-धैर्यवन्तः पुरुषा न प्रपद्यन्ते-नाङ्गीकुर्वन्ति ॥३५१॥ पुनरपि माता प्रभणति-हे वत्स ! वयं भवता सह आगमिष्यामः, अत्र स्थाने त्वां विनाऽस्माकं कः प्रतिबन्धोऽस्ति-न कोऽपीत्यर्थः ॥३५२॥
*---*-*-*---************
For Private and Personal Use Only