________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
जायं च साहुवायं, मयणाए सत्तसीलकलियाए । जिणसासणप्पभावो, सयले नयरंमि वित्थरिओ ॥ ३३४॥ अन्नदिणे सिरिपालो, हयगयरहसुहडपरियरसमेओ । चडिओ रयवाडीए, पच्चक्खो सुरकुमारूव ॥३३५॥ लोए अ सप्पमोए,पिक्खंते चडवि चंदसालासुं। गामिल्लएण केणवि, नागरिओ पुच्छिओ कोवि ॥३३६॥ भो भो कहेसु को एस जाइ लीलाइ रायतणउब्ब? । नागरिओ भणइ अहो, नरवरजामाउओ एसो ॥३३७॥ तं सोऊण कुमारो, सहसा सरताडिओब्ब विच्छाओ। जाओ वलिऊण समागओ अ गेहमि सविसाओ ॥३३८॥
तदा सत्त्वशीलाभ्यां-धैर्यब्रह्मचर्याभ्यां कलिताया -युक्तायाः मदनसुन्दर्याः साधुवादश्च सञ्जातः-साधुर्महासतीयमिति वाक्यं प्रादुरभूदित्यर्थः, तथा जिनशासनस्य प्रभावः सकलेऽपि नगरे विस्तृतो-विस्तारं प्राप्तः॥३३४॥ अन्यस्मिन् दिने श्रीपालो हयगजरथसुभटानां यः परिकरः-परिवारस्तेन समेतः-संयुक्तः सन् प्रत्यक्षः सुरकुमार इव राजवाटिकायां चटितः, राजवाटिकायां कीडार्थं चलित इत्यर्थः ॥३३५॥ तदा सह प्रमोदेन-हर्षेण वर्तते सप्रमोदस्तस्मिन् लोके च चन्द्रशालासुगृहोपरितनभूमिषु चटित्वा कुमारं प्रेक्षमाणे सति केनापि ग्रामीणेन नरेण कोऽपि नागरिको-नगरवासी पृष्टः ॥३३६॥ भो भो! त्वं कथय लीलया राजतनयो-राजपुत्र इव क एष याति?,एवं ग्रामीणेन पृष्टे सति नागरिको भणति- अहो एष नरवरस्यराज्ञो जामाताऽस्ति ॥३३७॥ तन्नागरिकवचः श्रुत्वा कुमारः सहसा-अकस्मात् शरेण-बाणेन ताडित इव विच्छायो जातः, च - पुनः सविषादः सन् तत एव वलित्वा गृहं समागतः ॥३३८॥
For Private and Personal Use Only