________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
423
*****************************
अप्पेइ वरावासं, पूरइ धणधन्नकंचणाईयं । तत्थऽच्छइ सिरिवालो, दोगुंदुगदेवलीलाए ॥३१७॥ अन्नदिणे तस्सावासपाससेरीइ निग्गओ राया। पिक्खइ गवक्खसंठिअकुमरं मयणाइ संजुत्तं ॥३१८॥ तो सहसा नरनाहो, मयणं दळूण चिंतए एवं । मयणाइ मयणवसगाइ महकुलं मइलियं नूणं ॥३१९॥ इक्कं मए अजुत्तं, कोवंधेणं तया कयं बीअं । कामंधाइ इमीए, विहियं ही ही अजुत्तयरं ॥३२०॥
वरवासम्-अवस्थानार्थं प्रधानमन्दिरम् अर्पयति-ददाति, तथा धनधान्यकाञ्चनादिकं पूरयति, श्रीपालस्तत्रावासे दोगुंदुकानां-त्रायस्त्रिंशकानां देवानां लीलयाऽवतिष्ठते ॥३१७॥अन्यस्मिन् दिने तस्य-श्रीपालस्य य आवासस्तस्य पार्श्वे या सेरीमार्गविशेषस्तस्यां राजा निर्गतः, तत्र च मदनसुन्दर्या संयुक्तं गवाक्षे सं-सम्यक् प्रकारेण स्थितं कुमारं-श्रीपालं प्रेक्षते - पश्यति स्म, सेरीति देशीशब्दोऽयम् ॥३१८॥ ततः-तदनन्तरं नरनाथो-राजा प्रजापालः सहसा-अकस्मात् मदनसुन्दरीं दृष्ट्वा एवंवक्ष्यमाणप्रकारेण चिन्तयति, मदनस्य-कामस्य वशं गच्छतीति मदनवशगा, तया मदनसुन्दर्या नूनं-निश्चितं मम कुलं मलिनीकृतम् ॥३१९॥ तदा-तस्मिन्नवसरे एकंतुमया कोपान्धेन सता अयुक्तं कृतं यत्कुष्ठिने स्वपुत्री दत्ता, द्वितीयं गुनः अनया कामान्धया सत्या, हीहीति खेदेऽयुक्ततरम्-अतिशयेनायुक्तं विहितं-कृतं, यत् स्वपतिं त्यक्त्वाऽन्यपतिः स्वीकृतः ॥३२०॥
*-*-*-*-*-*-*-*-*-***************
For Private and Personal Use Only