SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि वा ल क ho 5 हा ७५ * * * www.kobatirth.org **** Acharya Shri Kailassagarsuri Gyanmandir तेहिं गएहिं कमला, कमेण पत्ता सुहेण उज्जेणिं । तत्थ ठिआ य सपुत्ता, पेडयमन्नत्थ संपत्तं ॥ ३०८ ॥ भूसणधणेण तणओ, जा विहिओ तीइ जुव्वणाभिमुहो । ता कम्मदोसवसओ, उंबररोगेण सो गहिओ ॥ ३०९ ॥ बहुएहिंपि कएहिं, उवयारेहिं गुणो न से जाओ। कमलप्पहा अदन्ना, जणं जणं पुच्छए ताव ॥ ३१०॥ वि कहिअं तीसे, कोसंबीए समत्थि वरविज्जो । जो अट्ठारसजाई, कुटुस्स हरेइ निब्धंतं ॥ ३११ ॥ अत्र सप्तम्यर्थे तृतीया, ततश्चायमर्थ:- तेषु भटेषु गतेषु सत्सु कमलप्रभा राज्ञी क्रमेण उज्जयिनीं नगरीं सुखेन प्राप्ता, च - पुनः सपुत्रा-पुत्रसहिता तत्रोज्जयिन्यां स्थिता ॥ ३०८ ॥ ततस्तया राज्ञ्या तनयः-स्वपुत्रो भूषणधनेन-विक्रीतस्वाभरणद्रव्येण यावत् यौवनाभिमुखो विहितः कृतः, यौवनावस्थां प्रापित इत्यर्थः, तावत्कर्मदोषवशतः प्राक्कृतकर्मदोषवशात् स बालः उम्बररोगेण-कुष्ठविशेषेण गृहीतः ॥ ३०९ ॥ बहुभिरपि उपचारै:- प्रतिकारैः कृतैस्तस्य गुणो न जातः तदा कमलप्रभाराज्ञी 'अदन्न'त्ति अधीरा सती जनं जनं रोगनिर्गमनोपायं पृच्छति ॥३१०॥ तावत् केनापि पुरुषेण तस्याः कथितं तस्यै उक्तमित्यर्थः, * किं कथितमित्याह- कौशाम्ब्यां नगर्यां वरवैद्यः- प्रधानवैद्यः समस्ति, यो वैद्यः कुष्ठस्य अष्टादश जातीर्निर्भ्रान्तं निस्सन्देहं हरतिदूरीकरोति ॥३११॥ * * For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy