________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
***************************
मा कस्सवि कुणसु भयं, अम्हे सब्वे सहोअरा तुज्झ । एयाइ वेसरीए, आरूढा चलसु वीसत्था ॥३०३॥ तत्तो जा सा बरवेसरीए चडिआ पडेण पिहिअंगी। पेडयमझंमि ठिया, नियपुत्तजुआ सुहं वयइ ॥३०४॥ ता पत्ता वेरिभडा, उब्भडसत्थेहिं भीसणायारा । पुच्छंति पेडयं भो, दिट्ठा किं राणिआ एगा ? ॥३०५॥ पेडयपुरिसेहिं तओ, भणि भो अस्थि अम्ह सत्थंमि । रउताणियावि नूनं,जइ कज्जं ता पगिण्हेह ॥३०६॥ एगेण भडेण तओ, नायं भणिअंच दिति मे पामं । सव्वं दिज्जइ संतं, तो कुटुभएण ते नट्ठा ॥३०७॥ ___कथमित्याह- हे भगिनि! त्वं कस्यापि भयं मा कुरुस्व, यतो वयं सर्वे तव सहोदरा-भातरः स्म, एतस्यां वेसर्याम्-अश्वतर्याम् आरूढा विश्वस्ता सती चल-व्रज ॥३०३॥ ततः-तदनन्तरं या कमलप्रभाराज्ञी सा वरवेसर्थ्यां चटिता-आरूढा पुनः पटेन - वस्त्रेण पिहितम्-आच्छादितमङ्गं यस्याः सा तथोक्ता, पुनः पेटकस्य-कुष्ठिवृन्दस्य मध्ये स्थिता एवंविधा सती निजपुत्रेण युता सुखं व्रजति-गच्छति ॥३०४॥ तावद् वैरिणः-अजितसेनस्य भटाः प्राप्ताः सन्तः कुष्ठिकवृन्दं पृच्छन्ति, भो भवद्भिः किमेका राज्ञी दृष्टा?, कीदृशा भटाः ?-उद्भटशस्त्रैः-उद्धृतप्रहरणैर्भीषणः-भयङ्कर आकारो येषां ते तथोक्ताः ॥३०५॥ ततः तदनन्तरं कुष्ठिपेटकपुरुषैर्भणितं- भो भटाः ! अस्माकं सार्थे नूनं-निश्चितं 'रउताणित्ति पामाप्यस्ति, आस्तां राज्ञीत्यपिशब्दार्थः, यदि युष्माकं पामया सह कार्यं तत्तर्हि प्रकर्षण गृहणीत यूयम्।।३०६॥ तत एकेन भटेन ज्ञातं भणितं च- अहो ! इमे कुष्ठिकनराः पामां ददति, युक्तं चैतत्, यतः सर्वं सद्-विद्यमानं दीयते,ततः कुष्ठभयेन ते सर्वेऽपि भटा नष्टाः-पलायिताः॥३०७॥
*-*-*-*-*-*-*-*-*-*-***************
For Private and Personal Use Only