________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
हा
७१
**
*
www.kobatirth.org
*
*
*
कमलप्पभा रुयंती, मइसायरमंतिणा निवारित्ता । धाईउच्छंगठिओ, सिरिपालो थापिओ रज्जे ॥ २९०॥ जं बालस्सवि सिरिपालनामरन्नो पवत्तिआ आणा । सव्वत्थवि तो पच्छा, निवमियकिच्वंपि कारवियं ॥ २९१ ॥ * बालोवि महीपालो, रज्जं पालेइ मंतिसुत्तेणं । मंतीहिं सव्वत्थवि, रज्जं रक्खिज्जए लोए ॥ २९२ ॥ कइवयदिणपज्जंते, बालयपित्तिज्जओ अजिअसेणो । परिगहभेअं काउं, मंतइ निवमंतिवहणत्थं ॥२९३॥ तं जाणिऊण मंती, कहिउं कमलप्पभाइ सव्वंपि । विन्नवइ देवि ! जह तह, रक्खिज्जसु नंदणं निययं ॥ २९४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तदा रुदती - अश्रुपातं कुर्वती कमलप्रभा राज्ञी मतिसागरमन्त्रिणा निवार्य-निषेध्य धात्र्या उत्सङ्गे अङ्के स्थितः श्रीपालो बालो राज्ये स्थापितः ॥ २९०॥ यद्-यतो बालस्यापि श्रीपालनाम्नो राज्ञ आज्ञा सर्वत्राऽपि प्रवर्तिता, नृपमृतककृत्यं नृपस्य मृतकार्यमपि ततः पश्चात्कारितम् ॥ २९१ ॥ बालोऽपि महीपालो राजा मन्त्रिसूत्रेण मन्त्रिण:- अमात्यस्य व्यवस्थया राज्यं पालयति, युक्तोऽयमर्थः, यतः सर्वत्र लोके राज्यं मन्त्रिभिः रक्ष्यते, 'मन्त्रिहीनो भवेद्राजा तस्य राज्यं विनश्यती' तिवचनात् ॥ २९२॥ कतिपयदिनपर्यन्ते कियद्दिनानन्तरं बालकस्य - श्रीपालस्य पितृव्यः पितुर्भ्राताऽजितसेनो राजा परिग्रहस्य - परिकरस्य भेदं कृत्वा नृपमन्त्रिणोर्वधार्थं मंन्त्रयते- आलोचयति ॥ २९३ ॥ मन्त्री तन्मन्त्रणं ज्ञात्वा कमलप्रभायै सर्वमपि वृत्तान्तं कथयित्वा विज्ञपयति, हे देवि ! यथा तथा-येन तेन प्रकारेण निजकं स्वकीयं नन्दनं पुत्रं रक्षस्व-पुत्ररक्षां कुरु इत्यर्थः ॥२९४॥
For Private and Personal Use Only