________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
********************
चेइअहरंमि वत्तालावंमि कए निसीहिआभंगो । होइ तओ मह गेहे,वच्चह साहेमिमं सव्वं ॥२८२॥ तत्तो गंतूण गिहं,मयणाए साहिओ समग्गोवि । सिरिसिद्धचक्कमाहप्पसंजुओ निययवुत्तंतो ॥२८३॥ तं सोऊणं तुट्ठा, रुप्पा पुच्छेइ कुमरजणणिंपि । वंसुप्पत्तिं तुह नंदणस्स सहि! सोउमिच्छामि ॥२८४॥ पभणेइ कुमरमाया, अंगादेसंमि अत्थि सुपसिद्धा । वेरिहिं कयअकंपा, चंपानामेण वरनयरी ॥२८५॥
कीदृशमित्याह- चैत्यगृहे-जिनालये वार्तालापे कृते सति नैषेधिकीभङ्गो भवति, ततः-तस्मात् कारणात् यूयं मम गृहे व्रजत येन इमं सर्वं वृत्तान्तं कथयामि ॥२८२॥ ततो गृहं गत्वा मदनसुन्दर्या समग्रोऽपि निजकवृत्तान्तः कथितः, कीदृशो वृत्तान्तः ? -श्रीसिद्धचक्रस्य यन्माहात्म्यं तेन संयुतो-युक्तः ॥२८३॥ तं-निजजामातुर्वृत्तान्तं श्रुत्वा तुष्टा सती रूप्यसुन्दरी कुमारजननीमपि पृच्छति, कथमित्याह-हे सखि-हे सम्बन्धिनि ! तव नन्दनस्य-पुत्रस्य वंशोत्पत्तिं श्रोतुमिच्छामि, कस्मिन्वंशे उत्पत्तिः-वंशोत्पत्तिस्ताम् ॥२८४॥ अथ कुमारस्य माता प्रभणति, अङ्गाख्ये देशे सुतराम्-अतिशयेन प्रसिद्धा चम्पानाम्नी वराप्रकृष्टा नगरी अस्ति, कीदृशी सा ? -वैरिभिः कृतोऽकम्पो यस्याः सा, शत्रुभिरकृतकम्पेत्यर्थः ॥२८५॥
*-*-*-*-*-****************
*-
For Private and Personal Use Only
For private and Personal Use Only