________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
***********************
अन्नं च जं वियपह, तं जइ पुब्बाइ पच्छिमदिसाए । उग्गमइ कहवि भाणू, तहवि न एयं नियसुयाए ॥२७८॥ कुमरजणणीवि जंपइ, सुंदरि ! मा कुणसु एरिसं चित्ते । तुज्झ सुआइ पभावा, मज्झ सुओ सुंदरो जाओ ॥२७९॥ धन्नासि तुमं जीए, कुच्छीए, इस्थिरयणमुष्पन्नं । एरिसमसरिससीलप्पभावचिंतामणिसरिच्छं ॥२८०॥ हरिसवसेणं सा रूपसुंदरी पुच्छए किमेअंति ? । मयणावि सुविहिनिउणा, पभणइ एआरिसं वयणं ॥२८॥
यत्पुनरन्यत् अकार्याचरणलक्षणं यूयं विकल्पयत-विचिन्तयत तदेतद्यदि पूर्वस्य दिशः सकाशात् पश्चिमदिशायां कथमपि भानुः-सूर्यः उद्गच्छति, तथापि निजसुतायाः सकाशान्नैतत् (सं)भवेत् ॥२७८॥ तदा कुमारस्य जनन्यपि जल्पति, हे सुन्दरि ! त्वं स्वकीये चित्ते ईदृशं विकल्पं मा कुरुव, यतस्तव सुतायाः प्रभावात् मम सुत एतादृक् सुन्दरो जातोऽस्ति॥ २७९॥हे सुन्दरि ! त्वं धन्यासि यस्याः कुक्षौ ईदृशं स्त्रीरत्नमुत्पन्नं, कीदृशम् ? इत्याह- असदृशम्-अनुपमं यच्छीलं-ब्रह्मचर्यं तस्य प्रभावेण चिन्तामणिसदृशम्-चिन्तामणिरत्नतुल्यम् ॥२८०॥ एतत् श्रुत्वा सा रूप्यसुन्दरीराज्ञी हर्षवशेन कुमारमातरमिति पृच्छति, किमेतत् ? - कथमेष वृत्तान्त इत्यर्थः, तदा सुष्ठु निपुणा मदनसुन्दर्यपि एतादृशं वचनं प्रभणति-प्रकर्षेण कथयति ॥२८१॥
*****************************
For Private and Personal Use Only