________________
Shri Mahavir Jain Aradhana Kendra
笨
सि
रि
सि
रि
वा
ल
क
ho
६४
www.kobatirth.org
*
*
तं सोऊणं हरिसिअ - चित्ताऽहं वच्छ ! इत्थ संपत्ता । दिट्ठोसि बहूसहिओ, जुण्हाइ ससिब्ब कयहरिसो ॥ २६०॥ ता वच्छ ! तुमं बहुया-सहिओ जय जीव नंद चिरकालं । एसुच्चिअ जिणधम्मो, जावज्जीवं च मह सरणं * जिणरायपायपउमं, नमिऊणं वंदिऊण सुगुरुं च । तिन्निवि करंति धम्मं, सम्मं जिणधम्मविहिनिउणा ॥२६२॥ अन्नदि जिणवर-पूअं काऊण अंगअग्गमयं । भावच्चयं करंता, देवे वंदंति उवउत्ता ॥२६३॥
Acharya Shri Kailassagarsuri Gyanmandir
तद्-गुरुवचः श्रुत्वा हे वत्स ! अहं हर्षितचित्ता सती अत्र सम्प्राप्ता, 'हर्षितं चित्तं यस्याः सेति समासः', अधुना बध्वा सहितस्त्वं दृष्टोऽसि, कया सहितः क इव ? -ज्योत्स्नया चन्द्रिकया सहितः शशी-चन्द्र इव, अत्र कुमारस्य चन्द्रेणौपम्यं वध्वास्तु ज्योत्स्नयेति, कीदृशस्त्वं ? -कृतो हर्षो येन स तथोक्तः ॥ २६० ॥ तस्माद् हे वत्स ! त्वं वध्वा सहितश्चिरकालं- बहुकालं यावत् जय-सर्वोत्कर्षेण वर्त्तस्व, पुनः चिरकालं जीव- आयुष्यमान् भव, पुनः चिरं नन्द- समृद्धिमान् भव, च पुनः एष एव जिनधर्म्मो यावज्जीवं मम शरणमस्ति ॥ २६१॥ ततस्ते त्रयोऽपि जननीपुत्रवधूलक्षणा जीवा जिनराजस्य - जिनेन्द्रदेवस्य पादपद्मंचरणकमलं नत्वा च पुनः सुगुरुं वन्दित्वा सम्यग् धर्मं कुर्वन्ति, कीदृशास्त्रयः ? - जिनधर्मविधौ निपुणाः चतुराः ॥२६२॥ ते त्रयोsपि अन्यस्मिन् दिने अङ्गाऽग्रमयीं जिनवरस्य पूजां कृत्वा, एतावता भगवतोऽङ्गपूजामग्रपूजां च विधाय, भावाच्चभावपूजां कुर्वन्तः उपयुक्ताः सन्तो देवान् वन्दन्ते, अङ्गाग्रे प्रधाने अस्यामिति विग्रहः ॥ २६३ ॥
For Private and Personal Use Only