SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir *********************** तेण मुणिंदेणुत्तं,भद्दे ! सो तुज्झ नंदणो तत्थ । तेणं चिय कुट्ठियपेडएण दळूण संगहिओ ॥२५६॥ . विहिओ उंबरराणुत्ति, नियपहू लद्धलोयसम्माणो । संपइ मालवनरवइधूयापाणप्पिओ जाओ ॥२५७॥ रायसुयावयणेणं, गुरूवइटुं स सिद्धवरचक्कं । आराहिऊण सम्मं, संजाओ कणयसमकाओ ॥२५८॥ सो य साहम्मिएहिं, पूरियविहवो सुधम्मकम्मपरो । अच्छइ उज्जेणीए, घरणीइ समन्निओ सुहिओ ॥२५९॥ तदा तेन मुनीन्द्रेणोक्तं, हे भद्रे ! स तव नन्दनः-पुत्रः तत्रोजयिन्यां तेनैव कुष्ठिकपेटकेन-कुष्ठिनां वृन्देन दृष्ट्वा सगृहीतः, ततः समादाय स्वपार्श्वे रक्षित इत्यर्थः ॥२५६॥ ततस्तैः स त्वत्पुत्रः उम्बरराज इनि नाम्ना निजप्रभुः - स्वस्वामी विहितःकृतः, कीदृशः सः ?-लब्धः-प्राप्तो लोके सन्मानः - सत्कारो येन स तथोक्तः, सम्प्रति-अधुना त्वत्पुत्रो मालवनरपतेःमालवदेशराजस्य या पुत्री मदनसुन्दरी तस्याः प्राणप्रियो-भर्ता जातोऽस्ति ॥२५७॥ स तव पुत्रो राजसुताया-नृपपुत्र्या मदनसुन्दO वचनेन गुरूपदिष्टं श्रीसिद्धवरचक्रं सम्यक् आराध्य कनकेन-सुवर्णेन समः -तुल्यः कायः-शरीरो यस्य स तथोक्तः स्वर्णवर्णदहः सजातोऽस्ति ॥२५८॥ स च त्वत्पुत्रो गृहिण्या-निजस्त्रिया समन्वितो-युक्तः सन् अधुना उज्जयिन्यामवतिष्ठते, कीदृशः सः ?-साधर्मिकैः पूरितो विभवः- स्वर्णादिद्रव्यं यस्य स तथोक्तः, पुनः कीदृशः? सुष्टु- शोभनानि यानि धर्मकर्माणि पराणि-तानि प्रधानानि यस्य सः, पुनः सुखं जातमस्येति सुखितः ॥२५९॥ ********************* For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy