________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*******************************
खयकुटुजरभगंदर-भूया वाया विसूइआईआ । जे केवि दुटुरोगा, ते सब्वे जंति उवसामं ॥२४०॥ जलजलणसप्पसावय -भयाइं विसवेअणा उ ईईओ । दुपयचउप्पयमारीउ, नेव पहवंति लोअंमि ॥२४॥ वंझाणवि हुँति सुया, निंदूणवि नंदणा य नंदति । फिटुंति पुट्टदोसा, दोहग्गं नासइ असेसं ॥२४२॥ इच्चाइ पहावं निसुणिऊण दळूण तं च पच्चक्खं । लोआ महप्पमोआ, संतिजलं लिंति सविसेसं ॥२४३॥
क्षयकुष्ठज्वरभगन्दरभूताः क्षयकुष्ठादिरूपा इत्यर्थः, तथा वाता-वायुरोगाः पुनः विसूचिकादिका-अजीर्णादयो ये केऽपि दुष्टरोगाः ते सर्वे उपशामं यान्ति-उपशाम्यन्तीत्यर्थः ॥२४०॥ जलं-पानीयं ज्वलनोऽग्निः सर्पः प्रतीतः श्वापदाः सिंहादयस्तेभ्यो यानि भयानि तथा विषवेदना-विषजन्या पीडा तथा ईतयः- उत्पाताः तथा द्विपदचतुष्पदानां-मनुष्यतिरश्चा मार्यो-मरकोपद्रवाः लोके नैव प्रभवन्ति, नैव प्रवर्त्तन्ते इत्यर्थः ॥२४१॥ वन्ध्यास्त्रीणामपि सुताः-पुत्राः भवन्ति, च- पुनः निन्दूनांमृतवत्सास्त्रीणामपि नन्दनाः-पुत्रा नन्दन्ति-संवर्द्धन्ते इत्यर्थः, तथा उदरदोषा अपि नश्यन्ति, पुनरशेष-समस्तं दौर्भाग्यं नश्यति ॥२४२॥ श्रीसिद्धचक्रस्नपनजलस्य इत्यादि प्रभावं श्रुत्वा च- पुनः प्रत्यक्षं तं प्रभावं दृष्ट्वा लोका महान् प्रमोदो-हर्षो येषां ते महाप्रमोदाः सन्तो विशेषेण सहेति सविशेषं तत् शान्तिजलं-स्नपनपानीयं गृह्णन्ति ॥२४३॥
For Private and Personal Use Only